पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३० 1. ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः प्रविश्य तु बिलं धीरः पाताले सिद्धिमाप्नुयात् । असमर्थो जपेन्मन्त्रं बिलद्वारे ततो बलात् ॥ १४१ ॥ निर्गत्यासुरकन्याश्च प्रयच्छन्त्यस्य वाञ्छितम् ।

रसायनं रसं वार्थं घटिकामेष विन्दति ॥ १४२ ॥

[ सदेवासुरगन्धर्वयक्षरक्षोगणादयः । मन्त्रिणं नोपसर्पन्ति प्रयच्छन्त्यपि वाञ्छितम् ॥ १४३ ॥

पातालनरसिंहाधिकारः ।

नृसिंहैकाक्षरो मन्त्रो ब्रह्मा श्वेतान्यनुग्रहः ।

दण्डी स्याज्जगतीच्छन्दो मुनिरत्रिश्च दैवतम् ॥ १४४ ॥
महाविष्णुस्तदङ्गानि स्वयं दीर्घस्वरैर्युतः ।
ज्वलदग्निशिखाजालत्रिशिखावोष्टितं हृदि ॥ १४५ ॥ 

न्यस्तं हृदि दहेत् पापमपि जन्मान्तरार्जितम् । प्रणवान्तरितं मन्त्रं जपेद् विप्रः सुयन्त्रितः ॥ १४६॥ नद्यां समुद्रगामिन्यां शिखरे पर्वतस्य च ।

जपेद् घृताशनो लक्षदशकं त्वथ वै क्रमात् ॥ १४७॥ 

भैक्षाहारः पङ्क्तिलक्षं पुरश्चरणसिद्धये । ध्यायेत् तुषारशैलाभं कुङ्कुमाभसोच्छटम् ॥ १४८ ॥

बालचन्द्रार्धदंष्ट्राग्रं सिंहवक्रं त्रिलोचनम् ।
भ्रुकुटीकुटिला भोगललाटम कुटोज्ज्वलम् ॥ १४९ ॥ 

चतुर्भुजं ' शङ्खचक्रगदाभयकरं विभुम् ।

सर्वाभरणचित्राङ्गं पीताम्बरविभूषितम् ॥ १५० ॥ 

हिरण्यवधसंक्रुद्धं दहन्तमिव दृष्टिभिः । स्वैक्यं ध्यात्वा नरहरिं मनसैव तमर्चयेत् ॥ १११ ॥

पटे वा प्रीतमायां वा भक्त्या शक्तस्तु पूजयेत् ।
दशमात्रजपेनापि रोगापद्भ्यो विमुच्यते ॥ १५२ ॥

'थें' ख. पाठः. २. 'उच्छदम् क. पाठः