पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

गृहमन्त्राधिकारः ] पूर्वार्धे पञ्चत्रिंशः पटलः । न्मेऽखिलकन्यकान्वशमागतान् पातालेभ्यः आसुरिभ्यः फट् यन्त्ररूपेभ्यः फट् । सहसय मां रक्ष भगवन् ! नारसिंह ! विष्णो! सर्वपापेभ्यः सर्वापद्धयः सर्वभयोपद्रवभयेभ्यश्च । ओं ह्रीं क्षि फट् कास्तु ते हृ फट् ठठ । अस्याअङ्गानि - नरसिंह क्रीडित सिंहविद्राव्रण सर्वयन्त्रान् हन भञ्जोच्चाटय हुं फट् ठठ हृदयम् । ओं नरसिंहोत्तमाङ्गरक्षणाय हुं फट् ठठ शिरः ।ओं दंष्ट्रोत्कटाय हुं फट् ठठ शिखा । ओं नरसिंहारिविद्रावण हुं फट् ठठ कवचम् | ओं नमो भगवते नरसिंहाय वेदवेदेनिवेदाङ्गे हुं फट् ठठ अस्त्रम् । ओं फणाहस्रभोगकुटिलपर्यङ्कायानन्ताय ठठ । आगच्छ भगवन् ! विष्णो ! ठठ आवाहृनमन्त्रः । ओं नमः श्रीहिताय नमः पूजामन्त्रः । पूजितो यथासुखं नमः । चतुःशताक्षरो मन्त्रो नारसिंह इति श्रुतः । ऋषिर्यमोऽस्यातिच्छन्दो विष्णुरेवास्य दैवतम् ॥ १३२ ॥ पश्चिमाभिमुखं विष्णोरासाद्यायतनं शुचिः । जपेद् द्वादशसाहस्रं पुरश्चरणसिद्धये ॥ १३३ ॥ अङ्गमन्त्राणि विन्यस्य करयोरङ्गुलीष्वपि ।

देहे वाभ्यर्च्य नृहरिमष्टबाहुं त्रिलोचनम् ॥ १३४ ॥
स्तम्भान्निर्गत्य दितिजं भित्त्वा नखमुखासिभिः । तदान्त्रमालाविक्षेपरुधिरोक्षितविग्रहम् ॥ १३५ ॥
चक्रं खड्गं च मुसलं शङ्ख चर्म गदामपि । 

बिभ्राणं बाहुषट्कैश्च अधोहस्तद्वयेन तु ॥ १३१ ॥

हिरण्यकशिपुं भित्त्वा तदान्त्रोत्क्षेपभीषणम् ।
द्वारदेशे स्थितं रौद्रं जान्वोः क्षिप्तत्वारिविग्रहम् ॥ १३७ ॥

गर्जन्तमतिगम्भीरमट्टहासभयानकम् । स्तूयमानं विरिञ्चाद्यैर्देवैर्मुनिगणैरपि ॥ ११८ ॥ ध्यात्वैवं चित्रपट के निरावरणमर्चयेत् । मनसा चोपचारैर्वा नित्यं मन्त्रं जपेदपि ॥ १३९ ॥ १२९ सिद्धमन्त्रो बिलं गत्वा जपेन्मन्त्रमथायुतम् । तत्र विघ्नान् बहुविधान् दृष्ट्वासौ निश्चलो जपेत् ॥ १४० ॥ १. 'हाय', २. 'दि' क. ग. पाठः. २. 'स्मृ', ४. 'ध' क. ख. पाठः