पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२८ इंशान शिवगुरुदेवपद्धतौ मन्त्रपाद भूतप्रेतपिशाचादीन् धारणादेव नाशयेत् ! शतावरीरजः प्रस्थं प्रस्थं गोक्षुरकस्य च ॥ १२३ ॥ वाराह्या विंशतिफलं गुलूच्याः पञ्चविंशतिः । भल्लातकानां द्वात्रिंशच्चित्रके तु दशैव तु ॥ १२४ ॥ पलानि चूर्णयित्वा तु प्रस्थं कृष्णतिलं तथा । पुराणशर्करायाश्च पलानां सप्ततिं क्षिपेत् ॥ १२५ ।। पञ्चत्रिंशत्पलं क्षौद्रं तदर्धं गोघृतं स्मृतम् । एकीकृत्य तु तत्सर्वं स्निग्धभाण्डे विनिक्षिपेत् ॥ १२६ ॥ सप्तरात्रार्पितं प्रातर्नित्यमर्धपलं क्रमात् । अद्यान्नृसिंहमन्त्रेण मन्त्रितं ब्रह्मचर्यवान् ।। १२७ ॥ पण्मासात् पलितघ्नं स्याज्जरां मृत्युं जयेदपि । तथाष्टदश कुष्ठानि क्षयान् सप्तविधानपि ॥ १२८ ॥ अशीतिवातजानू रोगानेक विंशतिपैत्तिकान् । श्लैष्मिका विंशतिरुजः सन्निपातांश्च नाशयेत् ॥ १२९ ॥ सेवमानश्चिरं जीवेन्नारसिंहं रसायनम् । नारसिंहानुष्टुवाधिकारः ।

तारं हृद्भगवच्छन्दश्चतुर्थ्यन्तो भवेत् ततः ॥ १३० ॥ दीर्घो मेषोऽनलः शुक्लः साक्षिदण्डस्ततो वियत् । दीर्घवायुस्ततश्चापि देवदानव इत्यपि ॥ १३१ ॥ . भूगिटाशं प्रदीप्तसहस्रकोटिसहस्रसमतेजसे (?) वज्रनखदंष्ट्रायुधाय स्फु. टविकीर्णकेसराय, क्षुभितमहार्णवाम्भोदुन्दुभिस्वनघोषाय, सर्वमन्त्रान्तर. निर्घोषाय, सर्वमन्त्रान्तरहृदयाय, एह्येहि भगवन् ! नारसिंह ! पुरुष! परावर! ब्रह्म ! सत्येन स्फुर विजृम्भ दर दारय सर्वपांतालान् भ्रम गर्ज मुञ्च सिंहनाद विद्रावय आविश ग्रस सर्वयन्त्ररूपाणि सर्वपातालान् प्रथय सर्वतोऽनन्तज्वाल वज्रशतपञ्जरेण सप्त पातालान् परिवरिय सर्वपातालान् सुरलोकवासिनीनामा- कर्षय हृदयान्याकर्षय धुन शीघ्र दह हन पच मथ शोषय निकृन्तय ताव- 'तू' 'ड. ग. पाळ. २. 'भा' ख. पाठः, ३ 'वद्यावन्मे' कग. पाठः