पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

हरिमन्त्राधिकारः ] पूर्वार्धे पञ्चत्रिंश: पटलः । स्वर्णपट्टेऽथवा भूर्जें शुक्लपट्टेऽथवा लिखेत् ।

रोचनाकुङ्कुमलघुकुष्ठ कर्पूरचन्दनैः ॥ १११ ॥
सुपिष्टैः पङ्कजं शुक्लं कर्णिका केसरोज्ज्वलम् । 

अन्तरष्टदलं बाह्ये द्यष्टपत्रं ततो बहिः ॥ ११२ ॥ द्वात्रिंशञ्च दलं बाह्ये त्रिधा पाशेन वेष्टयेत् । अङ्कुशेन च संवेष्ट्य नृसिंहैकाक्षरं ततः ॥ ११३ ॥ कर्णिकायां लिखेत् तस्यां रक्ष्यनाम च संलिखेत् ।

अष्टाक्षराण्यष्टदले व्द्यष्टपत्रेषु च स्वरान् ॥ ११४ ॥ 

द्वात्रिंशद्दलमध्येषु मूलमन्त्राक्षराण्यपि ।

दलाग्रेषु ककारादीन् द्वात्रिंशद्वर्णकान् लिखेत् ॥ ११५ ॥
दलसन्धिषु 'हक्षेभि' परितो विलिखेत् त्रिधा ।
सपद्मपट्टसूत्राभ्यां गुलिकीकृत्य वेष्टयेत् ॥ ११६ ॥ 

लाक्षया च सुर्वेर्णेन समाच्छाद्याम्बुजो रे । विन्यस्तकलशे यन्त्रमवस्थाप्यासनादितः ॥ ११७ ॥ आवाद्याथ यजेत् सम्यग् जपेत् स्पृष्ट्वायुतं मनुम् ।

साध्यं तत्कलशाम्भोभिरभिषिच्य गुलिं ततः ॥ ११८ ॥
कण्ठे शिरसि वा हस्ते बद्ध्वा विप्रांश्च भोजयेत् । भूतप्रेतपिशाचानामपस्मारादिविद्विषाम् ॥ ११९ ॥ 

रोगाणां च क्षयादीनां परिहारः कृतो भवेत् ।

यन्त्रविधिः

बीजे नाम ततो लिख्या बहिर्वृत्तं च तद्बहिः ॥ १२० ॥ ओं हुं खे क्षे फट् जये ठठ । साध्याख्यान्तरितं मन्त्रमिमं तु परितो लिखेत् । पुनर्वृत्तं च षट्कोणे लिखेत् कोणेषु चानलम् ॥ १२१ ॥ story महाकालं क्रोध सन्धिषु बिन्दुमत् । पृथिवीमण्डल वा चक्रमेतत् तु संलिखेत् ॥ १२२ ॥ २२७ १. 'क्षे', २. 'लो बाधे त्रि', ३. 'क्षा', ४. 'प' ख. पाठः ५. 'तं क' SITZ.