पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः स्वयं नृसिंहो भूत्वारिं परिभ्राम्य मृगं स्मरन् ।

यस्यां दिशि क्षिपेत् तस्यां रिपोरुच्चाटनं भवेत् ।। ७२ ॥
स्वयं नृसिंहः क्रुद्धः सन् मृगं शत्रु विदारयन् । 

नखैर्जपेत् सहस्रं तु नित्यं मासेन मारयेत् ।। ७३ ॥

मारयित्वा रिपुं मन्त्रं जपित्वा कलशेन तु । 

अभिषिक्तो विशुद्धः स्यादात्मरक्षा च तद् भवेत् ॥ ७४ ।।

विद्वेषोच्चाटनादीनि कृत्वा चै विशुध्यति ।
क्रूरं कर्माथ सौम्यं वा यद्यदिच्छति मन्त्रवित् ॥ ७५ ॥
तत्तत् स्वैक्यहरिध्यानाज्जपतः कर्म सिध्यति । 

कुण्डे वेदाश्रके वहावाबाह्येष्ट्वा नृकेसरिम् ॥ ७६ ॥

जुहुयाच्चोदितैर्द्रव्यैरभीष्टफलमश्नुते ।
पूजां च कुर्याद् देवस्य शक्त्या विप्रांश्च भोजयेत् ॥ ७७ ॥
पुत्रञ्जीवेन्धनाग्नौ तु पुत्रार्थी तत्फलैर्हुतात् । 

सत्पुत्रं लभते तद्वत् पायसाज्यहुतादपि ॥ ७८ । पूजां कृत्वा भगवत्रः पुत्रकामो यदा भवेत् ।

पुत्रजीवेन्धनाग्नौ तु हुत्वा लक्षं पयो घृतम् ॥ ७९ ॥
पायसं च चरौ तस्मिन् संपात्याज्यं जपेदपि ।
दम्पती भोजयेत् तेन ब्राह्मणान् भोजयेदपि ॥ ८० ॥
अचिरेण भवेत् पुत्रो दीर्घायुः कान्तविग्रहः।
श्रीकामो बिल्वकाष्ठाग्नौ श्रीलताकुसुमाम्बुजैः ॥ ८१ ॥ 

बिल्वपत्रैः फलैर्हुत्वा घृताक्तैर्लभते श्रियम् ।

दूर्वाभिरायुराप्नोति क्षीराज्यहवनात् पशून् ।। ८२ ॥
उपद्रवाणां शान्त्यर्थं दूर्वात्रिकसहस्रकम् ।
अयुतं वाप्सु जुहुयाच्छान्ति गच्छन्त्युपद्रवाः ॥ ८३ ।। 

अथ युद्धजयं वाञ्छन् विभीतकशरानले । समूलतूलपत्राग्रकल्पितानां तदेधाम् ।। ८४ ॥

१. 'णानपि भोजयेत् ॥', २. 'सा' ख. पाठः,