पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नृहरिमन्त्राधिकारः] . पूर्वार्धे पञ्चत्रिंशः पटलः । व्रत्याशनः शस्तदेशे जपकोट्याणिमादिभोक् ।

महापातकिनां शुद्धिः कोट्या स्यादुपपातकात् ।। ५९ ॥ 

लक्षेण पातकेभ्यश्च प्रयुतेन विशुध्यति ।

अपमृत्युजयं वाञ्छन् हैमाद्यं तु घर्ट शुभम् ॥ ६० ॥
भारावरजलापूर्ण भद्रके विनिधाय तु। 

तीर्थाम्भोभिः सुवर्णेनं नानारत्नाक्षतैः फलैः ॥ ६१ ॥

चतुःक्षीरत्वगम्भोभिः सुगन्धिकुसुमैर्नवैः । 

श्रीवृक्षाश्वत्थचूतानां पल्लवैः कूर्चसंयुतैः ।। ६२ ।। कुम्भवक्रे सुनिहितैः सतण्डुलपिधानकैः । सुसूक्ष्मनववस्त्राभ्यां वेष्टिते स्रग्विभूषिते ॥ ६३ ॥ आसनादिक्रमात् तस्मिन्नावाह्य नृहरिं विभुम् ।

द्यष्टोपचारैराराध्य परिवारांश्च पूजयेत् ॥ ६४ ॥ 

सम्यगग्निं प्रतिष्ठाप्य हुत्वा दशशतं घृतम् ।

सम्पात्य कुम्भे तु जपेत् कूर्चस्पृगयुतं मनुम् ॥ ६५॥ 

देवस्य महतीं पूजां कृत्वा विप्रांश्च भोजयेत् । उपोषितं शुचिस्नातं साध्यमौदुम्बरासने ॥ ६६ ॥ संस्थाप्य विन्यसेत् साङ्गं मन्त्रं तस्मिस्तमर्चयेत् ।

गीतवादित्रनिर्घोषैर्वेदघोषपुरस्कृतम् ॥ ६७ ।। 

अभिषिञ्चेदमुं सम्यक् सोऽपमृत्योर्विमुच्यते । मन्त्रिणे दक्षिणां दद्यान्निजां शक्तिमहापयन् ॥ ६८ ॥ भूतग्रहाभिभूतांश्च रोगिणश्चाभिषेचयेत् ।

तत्तत्पीडोपशमनं तेषां सद्यो भविष्यति ॥ ६९ ॥
सहस्रजपितं भस्म सर्वरोगहरं स्मृतम् ।
स्पृष्ट्वात्मानं जपेन्मन्त्रं शतं स्यादात्मरक्षणम् ॥ ७० ।। चोरदुष्टमृगव्यालराजभूताद्युपद्रवे ।

स्वैक्यं ध्यात्वा जपं कुर्वन् तत्तद्भीतेर्विमुच्यते ।। ७१ ।।

१. 'कान्', २. 'ते', ३. 'प्रतिष्ठाप्य विन्यसेत्' ख. पाठः.