पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नृहरिमन्त्राधिकारः। पूर्वार्धे पञ्चत्रिंशः पटलः ।

एकादशपदो॒ मन्त्रो नेत्राक्षिश्रुतिवह्निभिः ।
शराग्निरामदस्रैश्च वेदनेत्राश्विवर्णकैः ॥ ११ ॥
अस्त्रशुद्धकरः स्वार्णे न्यसेदङ्गुालपर्वसु ।
अङ्गुष्ठादिकनिष्ठान्तं तलयोरपि विन्यसेत् || १२ ||
व्यापकं मूलतो देहे न्यसेदेवं पदानि च ।
मुखे मूर्ध्नि तथा घ्राणे नेत्रयोः श्रोत्रयोर्गले || १३ ||
हृन्नाभिकटिजान्वङ्घ्रिप्वेकादश यथाक्रमम् ।
मन्त्रन्यस्ततनुः कुर्याज्जपध्यानार्चनादिकम् ॥ १४ ॥
ध्यानं च -


अकलङ्कशरच्चन्द्रसहस्रधवलद्युतिम् ।
उत्फुल्लरक्तकमलनेत्राङ्घ्रिकरपल्लवम् ॥ १५ ॥
सिंहवक्रं लसद्दंष्ट्रव्यातरक्तमुखाम्बुजम् ।
त्रिनेत्रं भ्रकुटीभीमं विद्युत्पिङ्गसटाच्छटम् ॥ १६ ॥
रक्तक्षौमोत्तरासङ्गं पीताम्बरधरं विभुम् ।
सशङ्खचकोर्ध्वकरं मकुटोल्लासिमस्तकम् ॥ १७ ॥
योगपट्टपिनद्धाङ्गं स्वासीनं पङ्कजासने ।
व्यत्यस्तपादयुगलं जान्वारूढभुजद्वयम् ॥ १८ ॥
शशाङ्कशकलाकारनखोल्लासिकराङ्गुलिम् ।
कर्णावतंसविलसन्मणिकुण्डलमण्डितम् ॥ १९ ॥
नानामणिगणोद्धासिकर्णभूषणभूषितम् ।
शुक्लोपवीतसंसक्तमुक्ताहारैरलङ्कृतम् ॥ २० ॥
श्रीवत्सकौस्तुभोरस्कं माणिक्योदरबन्धनम् ।
केयूररलवलयैरङ्गुलीयैश्च भूषितम् ॥ २१ ॥
नानारत्नप्रभोद्भासिकटिसूत्रविराजितम् ।
विचित्रवलयोल्लासिनूपुराङ्घ्रिसरोरुहम् ॥ २२ ॥
सर्वाङ्गसुन्दरतया भूषणानां विभूषणम् ।
दैत्येन्द्र दारणप्रीत्या प्रसन्नाननपङ्कजम् ॥ २३ ॥

'ल' पात्रः १. 'क्ष' क. पा.