पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीकराटाक्षरगोपालमत्राधिकार:] पूर्वार्धे चतुत्रिंशः पटलः ।

गोसिद्धिर्गोरसैर्हुत्वा पद्मैरन्नाद्यसम्पदः ।
दध्याज्यखादिरहुताद् व्यसनेभ्यो विमुच्यते ॥ ८० ॥
पुत्रार्थमश्वत्थतरोर्मूले कृष्णं स्मरन् यजेत् ।
गुरु त्रप्रदं लक्षं जपेत् तस्माद् दशांशतः ॥ ८१ ॥
वृतं तु जुहुयाद् भूत्यै नवनीतं जुहोतु च ।
प्रातः कुजदिने स्नातः श्रीभूमिसहितं हरिम् ।। ८२ ।।
इष्ट्वायुतं जपित्वा तत् क्षेत्रं गत्वा तु तन्मृदम् ।
सप्ताभिमन्त्रितां प्राश्य तत्क्षेत्रं सप्तभिर्लभेत् ॥ ८३ ॥
पारिजातहरं कृष्णं ध्यात्वेष्ट्वा करवीरजैः ।
संसिद्धैर्जुहुयादाज्यैर्जयतीन्द्र इव द्विषः ॥ ८४ ॥
शङ्खादिनिधिसंयुक्तं द्वारकावासिनं हरिम् ।
ध्यात्वेष्ट्वा तण्डुलान् हुत्वा प्रतिष्ठां लभतेऽचिरात् || ८५ ॥
पार्थाय गीतावक्तारं कृष्णं ध्यात्वाम्बुजैर्यजन् ।
धर्मं च मोक्षं प्राप्नोति दूर्वाहोमाञ्चिरायुषम् ।। ८६ ॥
आहर्तारं तु रुक्मिण्या घ्यात्वेष्ट्वा लाजगोघृतम् ।
जुहुयाच्च जपेदिष्टां कन्यां योषाश्च विन्दति ॥ ८७ ॥
पिबन्तं पूतनास्तन्यं स्वैक्यं ध्यात्यावलोकनात् ।
सर्वे ग्रहा विनश्यन्ति विषं कालीयमर्दनम् ॥ ८८ ॥
बृन्दावनगतं ध्यायन् वृष्टिकामस्तु वेतसैः ।
हुत्वा तु लभते वृष्टिं सप्तरात्रान्न संशयः ॥ ८९ ॥
व्याधीञ् जयेच्चापमृत्युं छिन्नाज्यतिलहोमतः ।
साज्यपायसहोमेन सर्वान् कामानवाप्नुयात् ॥ ९ ॥
राज्ञः पुरोहितत्वार्थी शुकपुष्पैर्मधुपुतैः ।
हुत्वा तु लभते लक्षमन्यद् वा न चिराद् द्विजः ॥ ९१ ॥
इति निगदितमेतत् कृष्णमन्त्रस्य सभ्यङ्
मुनिजनपरिदृष्टान् वीक्ष्य कल्पान् विधानम् |

DD २-१-७