पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

टाक्षरमन्त्राधिकारः ] पूर्वार्धे त्रयस्त्रिंशः पटलः । २०९ तित्रो निशाः सम्यगुपोष्य कृष्णे पक्षे तु काष्र्णे दिवसे तु कृष्णम् । . संपूज्य तत्पादयुगं कराभ्यां स्पृष्ट्वा जपेत् सप्तदिनं धनार्थी ॥ १.१८ ॥ इत्थमानचन्दनपादुकाखड्गादिकं च साधयितुं तत्तत् कार्य साधयति । प्रातस्त्रिरात्रं समुपोष्य चेष्ट्वा विष्णुं सगोमूत्रकयावकाभ्याम् । पक्षं विनिद्रः सततं जपेद् यस्तस्येष्टदा व्योमचरा भवेयुः ॥ ११९ ॥ भूतोदकेनैव बलिं निशीथे दत्त्वा श्मशाने त्वथ सप्तरात्रम् ।

भूतादिकेभ्यस्त्रिसहस्रजापाद् भूताः पिशाचाश्च तदिष्टदाः स्युः ॥ १२० ॥
न्यग्रोधमूले हरिमर्चयित्वा जुह्वत् सहस्राणि तु खादिरीणाम् ।

श्यामासु मासादुपयाति॒ यक्षी स्यादिष्टदा सा रमतां तया वा ॥ १२१ ॥

स्वादिरीणां समिधामित्यर्थः ।

आलिख्य चाशोकवनस्य मध्ये यक्षं तथा तत्फलके तदीयैः । -पुष्पैर्हरिं चापि यजेत् त्रिसन्ध्यं हुत्वापि मासाद् वरदो हि स स्यात् ॥ १२२ ॥ नागद्रुमाणां फलकेषु नागीरालिख्य या नागवनस्य मध्ये | इष्ट्वा हरिं तत्कुसुमैर्जुहोतु प्राप्नोति ताभ्यः स रसायनाद्यम् ॥ १२३ ॥

द्वारे बिलस्यासुरराजकन्यामालिख्य चाधाय विकङ्कताग्निम् ।
वैकङ्कतीनां समिधां तु लक्षं हुत्वासुरीतो लभते तदिष्टम् ॥ १२४ ॥ आर्द्राम्बरोऽथाम्बरगोचरेऽग्नौ यद्वैतसीनामयुतं जुहोतु ।

• स्याद् कृष्टिरग्र्या समिधामथापि स्थित्वा तस्माद् द्विगुणं जपित्वा ॥ १२५॥ शमीसमिद्भिर्विपदां प्रशान्त्यै जुहोतु कृष्णैः सघृतैस्तिलैर्वा । श्रियै च पुष्यै घृतपायसाभ्यां जपन् श्रियं पश्यति पर्वताग्रे ॥ १२६ ॥

-क्षीराशनो वाक्षरलक्षजापी ब्रह्मावबोधं लभते च मुक्तिम् । 

लक्ष्मी दृशा पश्यति पर्वताग्रे सम्पूज्य षण्मासजपेन भक्तः ॥ १२७ ॥ दध्याज्यमध्वक्ततिलैः सुकृष्णैर्हुत्वा त्रिलक्षं त्रिदशा वशे स्युः । प्रत्याशनो विष्णुगृहे जपेद् यः संवत्सरं मन्त्रमसक्त्तमेनम् ॥ १२८ ॥ १. 'न्ति ख. पाठः. २. 'ध्ये 'इष्ट्वा हरिं' ग. पाठः ३. 'पि सा तद्व' ख पाठः. पाठ ४. cc