पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेव पद्धतौ I पूतस्तथा पञ्चभिरेव लक्षैस्तोये स्थितः स्यादिह पातकेभ्यः।

अन्ते तु गव्यान्यभिमन्त्र्य पीत्वा पूतस्त्रिलक्षरुपैर्पातकभ्यः ॥ १०६ ॥ 

सूर्येक्षणो वारिणि जानुदघ्ने स्थित्वाष्टसाहस्रजपाभिषिक्तः ।

तत्तद्दिनोपात्तमघं निहन्यात् स्यान्नाभिमात्रे जपतस्तु पुष्टिः ॥ १०७ ॥ 

शुक्लाब्जसूत्राणि मतङ्गसंख्यागुणानि चैक्यं गमितानि मन्त्री ।

स्पृष्ट्वायुतं तज्जपितं निबद्धं स्यात् सर्वरक्षाकरमायुषे च ॥ १०८ ॥
पुंसां दक्षिणहस्ते वामकरे कण्ठे वा स्त्रीणाम् ।

क्रुद्धस्य शान्तिः पुरतो जपात् स्याद् वादे जयश्चाष्टसहस्रजापात् ।

राज्ञोऽथ वान्यस्य च दर्शनादौ मन्त्र जपेदिष्टमसौ करोति ॥ १०९॥ 

स्नातो विशुद्धः कपिलाकरीषं ब्राह्मे मुहूर्तेऽम्बुजपत्रलब्धम् । अनिन्दुपर्वण्ययुतं जपित्वा द्वारे निखातं गृहरक्षकं तत् ॥ ११० ॥

तद्गोमयाद् वैष्णववाह्निभस्म प्राग्वज्जपेत् स्याद् ग्रहरोगरक्षा । सिद्धार्थपालाशतिलाज्यहोमात् स्यात् सर्वरक्षा ग्रहरोगशान्तिः ॥ १११ ॥
राजीघृताक्ताः समिधोऽर्धरात्रे वैभीतकीर्दिग्वसनो वनान्ते । 

जुहृद् रिपून् मारयतीह मासात् वैकङ्कतीः स्तम्भयते च सेनाम् ॥ ११२ ॥ इष्ट्वा हरिं गव्यघृतावसिक्तं नित्यं त्वपामार्गसमित्सहस्रम् । हुत्वा नरेन्द्रौ नवभिस्तु मासैर्जित्वेह शत्रून् वहते धरित्रीम् ॥ ११३ ॥

बामे व पाणौ सलिलं गृहीत्वा दष्टं निषिश्चेन्मनुजापलब्धम् ।
क्ष्वेलान् समस्तान् विनिहत्य रक्षेद् दूर्वाभिरामृज्य च लूतिकादीन् ॥११४॥ ध्यायेन्निजैक्यं गरुडाधिरूढं शङ्खारिपाशाङ्कुशशार्ङ्गबाणैः ।
गदासियुक्ताष्टभुजं जयार्थी नारायणं वैरिभियां च शान्त्यै ॥ ११५ ॥
क्षीराणवान्तः कनकान्तरीषे कल्पद्रुमोद्यानगमण्डपान्तः ।
सिंहासनाब्जोदरसन्निविष्टं ध्यायेच्छ्रियै श्रीधरणीसमेतम् ॥ ११६ ॥ 

गङ्गादिकानां सरितामुदीच्ये तीरेऽब्दमष्टाक्षरमन्त्रजापी । आश्चर्यशक्तिर्भवतीह सर्वान् कामानवाप्नोति च दीर्घमायुः ॥ ११७ ॥ १. 'भ्यः । सूर्ये', २. 'त्यं' ख. पाठ.. ३. 'द्रा' क. ग. पाठः २०८