पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अष्टाक्षरमश्राधिकारः] पूर्वार्ध त्रयस्त्रिंशः पटलः। "सिद्धार्थमक्षतं चैव कुशाग्राणि तिला जलम् । यवं गन्धं फलं पुष्पमर्घ्य॑मष्टाङ्गमीरितम् ॥ ४४ ॥"

पाद्यं च दूर्वाम्बुजविष्णुपत्नीश्यामाकतोयैः परिपूर्य चेष्ट्वा । । तक्कोलजातीफलसल्लवङ्कैरेलाम्बुभिश्वाचमनीयकं स्यात् ।। ४५ ॥
संमार्जनीय च निशाशिरीषावादित्यवर्तिन्यपि सर्वभद्रा ।
दर्भास्तथाम्भांसि च कुङ्कुमं च मूलाभिलब्धं स्नपने नियोज्यम् ॥ ४६॥

अस्त्रेण धौतेषु समूलतोयैः पूर्णेषु पात्रेषु सहाङ्गमूलम् ।

न्यसेत् सगन्धाक्षतपुष्पधूपैरर्घ्यादिकानि क्रमशोऽर्चयीत ॥ १७ ॥

उशीरं कुङ्कुमं मांसी मुरं मूलं च चन्दनम् । कुष्ठं कृष्णागरुश्चेति गन्धोऽष्टाङ्गो हरिप्रियः ॥ ४८ ॥ सर्वमस्त्ररक्षितं कवचावकुण्ठितं च । तत्रार्घ्य॑ं (दक्षिणकरे) पादयोः पाद्यं पृथक् पृथगा चमनीयं च मुखे संमार्जनीयं विशिष्टस्नपने योज्यम् । आपूर्य तोयैः शुचिभिस्तु पूतैर्वस्त्रेण लौहीमथ मार्तिकी वा ।

न्यसेच्छुभां वर्धनिकां तु वामे स्याद् दक्षिणे वस्तु समस्तमन्यत् ॥ ४९ ॥

अस्त्रेणार्घ्यजलैः कूर्चेनावोक्ष्य मूलाङ्गैरभिमन्व्य धेनुमुद्रयामृतीकृत्य क- . वचेनावकुण्ठ्य सुरक्षितं पूजोचितं वस्तु समं निदधीत। अर्घ्यादिभिः प्रोक्ष्य शिरः स्वशुद्धिः पूजाक्षितौ द्रव्यगणे च शुद्धिः। प्लुतान्तमूलेन तु मन्त्रशुद्धिः स्यात् क्षालनेनापि च बेरशुद्धिः॥ ५० ॥

विघ्नेशमिष्ट्वा निर्ऋतौ स्वनाम्ना पूर्वोत्तरे तु स्वगुरूंस्तथैव ।
तत्रैव वाचं परमं गुरुं च श्रीनारदं चाप्यथ पूर्वसिद्धान् ।। ५१ .
अस्त्रेण निर्माल्यमपोह्य बेराद् दत्त्वामृताय॑ त्वभिषिच्य तोयैः। 

शीर्णा तुं पाद्याचमने च पीठमिष्टा समावाह्य निधाय मन्त्रान् ।। ५२ ॥ पुनस्तथार्घ्यादिभिरिष्टगन्धैः सपुष्पधूपाक्षतमर्चयित्वा ।

सुगन्धितैलेन च पञ्चगव्यैः संस्नाप्य चूर्णैरपनुद्य लेपम् ॥ ५३ ॥
संमार्जनीयेन विमृज्य देवं हारिद्रचूर्णेन च कुङ्कुमेन । सुगन्धिपुष्पाम्बुसुगन्धतोयैस्तथाभिषिञ्चेत् पुरुषादिसूक्तैः ॥ ५४ ॥

१. 'च' ख, पाठः.