________________
ईशानशिवगुरुदेवपद्धतौ मन्त्रपाद: अष्टाक्षराणां तत्त्वानि कथितानि यथाक्रमम् ।
षष्ठाद्ययोरुदात्तत्वात् स्वरितोऽन्त्यद्वितीययोः ।। १० ॥
प्रचयस्त्रिचतुर्थाभ्यां निभृतः पञ्चमाक्षरः ।
क्रुद्धो महावीरपदे धुशब्दः सहस्र इत्युक्तपदेन युक्ताः ॥ ११ ॥ स्वैर्जातिभिस्तानि यथा चतुर्था पञ्चवमङ्गानि भवन्ति युक्त्या ।
दुर्गागणेशा गुरुवैनतेयौ बह्वयादिकोणेषु भवन्ति देवाः ।। १२ ॥
शक्रादिषु क्षेत्रपप्तिः स्वनाम्ना दिग्बन्धने छोटिकया विधेयाः ।
न्यासः पुरस्तात् करयोश्च देहे पञ्चाङ्गविन्यासविधिश्च तेषाम् ॥ १३ ॥
सृष्टिः स्थितिः संहरणं च भेदाः स्युर्ब्रह्मचारिप्रभृतित्रयाणाम् । अस्त्रेण संशोध्य करौ स्ववर्णास्तर्जादिकं दक्षिणतोऽथ वामे ॥ १४ ॥ न्यस्येत् तु तर्जान्तमथाङ्गमन्त्रान् ज्येष्ठादिकं वामकरे तदन्तम् । वर्णाङ्गमन्त्रोभयतस्तु तारः स्यान्मध्यपर्वस्विह वर्णमन्त्रान् ॥ १५ ॥
आद्यन्तपर्वस्वपि तारमेव न्यस्येत् समस्ताङ्गुलिषु क्रमेण ।। उक्तकमात् संहृतये विलोमव्यासः स्मृतोऽथ स्थितये तु पाण्योः ॥ १६ ॥ तर्जादिकं चापि कनिष्ठिकान्तं ज्येष्ठाद्यमङ्गेषु कनिष्ठिकान्तम् । काक्ष्यास्यहृन्नाभिकटिप्रदेशा जान्वङ्घ्रयश्चापि भवन्ति सृष्टौ ॥ १७ ॥
विलोमतः संहृतये स्थितौ च न्यस्येत् तु नाभेर्हृदयान्तमर्णान् । करम्यासेऽङ्गुष्ठाभ्यामङ्गुलिषु तर्जाग्राभ्यामङ्गुष्ठयोर्न्यसेत् ।
स्यान्मध्यया मध्यमतर्जनीभ्यां साङ्गुष्ठयानाभिकया च तर्जा ॥ १८ ॥ ज्येष्ठान्विता ज्येष्ठिकया कनिष्ठा निर्ज्येष्ठकाभिः सकलाङ्गुलीभिः ।
देहन्यासं कुर्यात् । इत्थं सदा न्यस्ततनुं विशुद्धं नरं तु नारायणमूर्तिभाजम् ॥ १९ ॥ विषाभिचारारिरुजो ग्रहाद्या व्रजन्ति दूरेण विहाय भीताः ।
विन्यस्तमन्त्रोऽप्यशुचिर्यदा यद् धौताङ्घ्रिराचम्य पुनश्च मन्त्री ॥२०॥
स्नात्वाथवा न्यस्ततनुर्यथावत् पुनर्जपाद्यं विदधीत कृत्यम् ।
1. 'कमादि' ख. पाठ:. २. 'द' क. पाठः, ३. 'यो क्षितौ', ४. वृ' ख. पाठ