पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९८ ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः तस्य वानरसिंहस्य क्रममाणस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।। १५२ ॥ हुं फण्णमः। अयं हनूमदैवत्यः सस्यरक्षाकरो मनुः ।

विलिख्य पत्रे तु मनुं वारेऽर्कस्य कुजस्य वा ।। १५३ ॥
नीत्वा प्रदक्षिणं क्षेत्रे खनेत् कीटादिशान्तये ।

नमो भगवते एक्तकाफुण्डे हंसः चामुण्डे । अपिच विचय हंसः काली उच्चाटय हुं फट् । भस्माष्टोत्तरसाहस्रमादाय जपितं करे ।। १५४ ।। क्षेत्रे प्रदक्षिणं प्रास्य सस्यं किञ्चिद् विमुच्य तु ।

सस्यकीटादयो नश्यन्ति । खुषि खुषि प्रवञ्जणि लुखेषिणि ठठ ।

साध्यां पश्यन् सुकेशस्पृग् जपेदाकर्षयेच्च ताम् ॥ १५५ ॥

स्त्री पुरुषं वेति यावत् ।

भूर्जे स्वनामान्तरितो मन्त्रोऽयं रोचनार्पितः । सितसूत्रावृतोऽश्वत्थकोटरस्थोऽस्य पुष्टिकृत् ।। १५६ ॥ स साध्यनामन्यग्रोधकोटरस्थं वशं नयेत् । ओं हां शुगृहे खे हे हं हः। अनेन जपितान् व्रीहीन् भक्षयन्ति न मूषिकाः ।। १५७ ॥ नालिकेरादिबन्धाच्च जपितारुणतन्तुना ।

ओं हि लषे वज्र।

शमीभस्माम्भसा अनेन क्लिन्नदक्षिणपाणिना ॥ १५८ ।। स्पृष्ट्वा वश्याः स्युरन्येन स्पर्शादुच्चाटिता नगः।

पण्ये विकीर्णं तद्भस्म तद्विक्रयनिषेधकृत् ॥ १५९ ॥ 

तत्पुण्डूमुखमालोक्य दान्ताः स्युर्वृषभादयः । १. 'प्य' क. पाठ:... ' क ग.. पाट:.: खा. पार५. 'क्षः' क. पारः. 'तम्', ४. 'हे हः