पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपाद: भद्रकालीपरिचारां ध्वात्वेत्थं मन्त्रदेवताम् ॥ ११५ ॥ स्वैक्येनाशासु मध्ये च प्रक्षिपेन्नवशर्कराः । जपित्वाष्टोत्तरशतं चोरा न प्रविशन्ति तत् ॥ ११६ ॥ गृहमिति यावत् । चण्ड श्रीचण्डि । अमरभ्रमरभ्रमरच्छत्रधर पिङ्गलाक्षि कामरूपि अरण्यवासिनि खोट ठठ । । कृष्णाष्टम्यादिभूतान्तं जपित्वेमं सहस्रकम् ।

पूर्वेधुरधिवास्यैकां कन्यां तपनवासरे ॥ १३७ ।।
सातां विभूषितां प्रातर्वटुं वाभ्यर्च्य मन्त्रतः । 

चषकं मण्डले धान्ये संस्थाप्याभ्यर्च्य संस्पृशन्। १३८ ।। जपित्वाष्टोत्तरशतं ग्राहयेत् कन्ययाथ वा ।

गच्छेत्युक्त्वाक्षतक्षेपाद् गत्वा चोरं ग्रहीष्यति ॥ १३९॥ 

नमश्शब्दश्च कर्णश्च कालो दीर्घोऽथ भौतिकी ।

वायुश्च गिरिशब्दश्च स्वाहान्तोऽयं नवाक्षरः ।। १४० ॥ 

सन्दिग्धचोरनामार्णान् मन्त्राक्षरविदर्भितान् ।

विलिख्य पत्राणि दहेच्चोरनाम न दह्यते ॥ १४१ ।। 

द्वयोर्भ(?)फलके मन्त्रं साख्यं विलिखितं खनेत् । शास्तुरग्रे रक्तबलिं क्षिपेत् क्रुद्धः प्रसीदति ।। १४२ ॥ __ उफा भट शेलर्वलिद्धि देवानुचराय महायक्षसेनाधिपतये ।

इदं मे कार्य कथय कथापय तद्यथाज्ञापयति ठठ।

कृष्णाष्टम्यादि जपतु सहस्रं त्वाचतुर्दशीम् । सिद्धमन्त्रस्ततः स्नात्वा सोपवासः स्वपेन्निशि ॥ १४३ ॥ जपन कार्य कथयति स्वप्ने तस्य शुभाशुभम् । अयुद्धे युद्धे युद्धषूभे ठ शुद्धयोगि महानिद्रे ठठ।

इममर्कसहस्रं तु जपित्वा साधितेन तु ॥ १४ ४ ।। 

अष्टसाहस्रजपितांस्तिलान् शुक्लांस्तु यद्गृहे ।। निशायां विकिरेत् तत्स्थान् नरान् निद्रा न मुञ्चति ॥१.५ ॥ 1. 'वर्णश्री', २. 'तां व' ख. पाठः. ३. 'वा' क. पाठः.