________________
कर्णवक्षाथधिकारः] पूर्वार्धे द्वात्रिंशः पटलः । सुभ्रूः सुदन्तनासोष्ठा सुभुजा सुन्दरोदरी ।
सुपीनश्रोणिजघना सूरुजवाघ्रिपङ्कजा ॥ १२५ ॥
सर्वाङ्गसुन्दरी चित्रवसनाभरणोज्ज्वला ।
प्रसाधनकराभ्यां तु दूतीभ्यां समुपस्थिता ॥ १२६ ॥ लेख्या चित्रपटे सम्यक् पूजनीया च यक्षिणी ।
वटाधो मासमात्रं तु त्रिलक्षं तं मनुं जपेत् ।। १२७ ॥
मध्याहे बदरीपुष्पैः कदम्बकुसुमैस्तथा ।
माषान्नबलिपिण्डाभ्यां बलिं वैश्रवणाय तु ।। १२८ ॥
निशासु प्रक्षिपेत् प्रोक्तमार्गेण जुहुयादपि । घृतेनाकोलतैलेन पृथगष्टसहस्रकम् ॥ १२९ ॥
ततः प्रत्यक्षतां याति यक्षिणीष्टं ददाति च ।
तया वा रमतां कामं कारयेत् कर्म चेप्सितम् ॥ १३०॥ लम्बोदरपदात् पूर्वं त्रिजगेति समुद्धरेत् । दीर्घाम्भो विषमेषौ च कर्णेति कथयेति च ॥ १३१ ॥ क्रमेण द्विर्ह्निरुच्चार्य वर्मास्त्रे चाग्निजायया । मन्त्रः सङ्कृतिवर्णोऽयमिष्टा भक्ष्यफलैस्तु तम् ॥ १३२ ॥
त्रिलक्षं तु जपेत् तस्य कर्णे कथयतीप्सितम् ।
हत्कर्णशब्दश्च पिशाचिशब्दश्च (लुहर्णह ज्रहै ? सुवर्णवज्रवै)दूर्यमुक्ताभरणनिर्मलालङ्कृतशरीरिणि। एह्येहि गच्छ त्रैकाल्यदर्शिनि मम कर्ण प्रविश्या तीतानागतवर्तमाने रुद्रो ज्ञापयति ठठ ।
लिङ्ग समभ्यर्च्य तदग्रतोऽमुं मन्त्रं जपेल्लक्षमथो तिलाज्यम् । पङ्कयशतोऽस्माज्जुहुयात् ततोऽस्मै कर्णे तु साक्षात कथयेदभीष्टम् ॥ १३३ ।। जाल मोल पलके पट्टे मट्टे चोरघरट्टे णले जम्भे स्तम्भे मोहे हंसाहे। सिन्दूरामा विवस्त्रा मणिकनकमिलद्भूषणा मुक्तकेशी पीनश्रोण्यूरुरम्या मणिमयरुचिमत्पादुकाक्रान्तपादा। शिञ्जन्मञ्जीरकान्ता तनुतरविलसन्मध्यतुङ्गस्तनी या सुभ्रूनेत्राखिलेन्दुद्युतिमुखकमला हेलती पातु युष्मान् ॥ १३४॥ १. 'की' ख. ग, पाठः,