पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः अनयोर्मन्त्रयोस्तुल्यमृषिच्छन्दोधिदैवतम् ।।

अङ्गानि च विधानं च साधनाद्यं च तत्समम् ॥ ६८ ॥ 

छन्दस्तु बृहती तद्वदृषिः स्याञ्चण्डकौशिकः । चण्डेश्वरो दैवतं स्यादस्वान्ताङ्गानि पञ्च हि ॥ ६९ ॥ दप्तिषड्ज्वलफट् + + ज्वालिनीति तटेति च ।

सर्वज्वालिनिशब्दाः स्युः फडन्ता जातिसंयुताः ॥ ७० ॥ 

पञ्चाङ्गानि हृदादीनि क्रमेण परिकल्पयेत् ।

तान्यस्त्रशुद्धकरयोर्ज्येष्ठाद्यङ्गुलिषु न्यसेत् ।। ७१ ।। 

मन्त्राक्षराणि त्र्यर्णस्य सर्वेष्वङ्गुलिपर्वसु । पदानि पञ्चाङ्गुलिषु नवार्णस्यापि विन्यसेत् ॥ ७२ ॥

द्वाभ्यां द्वाभ्यां त्रिभिश्चके नैकार्णेन पदान्यपि ।
शिरोहचरणेष्वर्णास्त्र्यर्णस्यान्यस्य मस्तके ॥ ७३ ॥
मुखहृद्गुह्यपादेषु विन्यसेत् पदपञ्चकम् ।
पञ्चाङ्गानि हृदाद्येषु स्वावकाशेष्वनुक्रमात् ॥ ७४ ॥ 

त्रिलक्षं चैकलक्षं च पुरश्चर्या द्वयोरपि ।

शिवनिर्माल्यकुसुमैर्होमश्चास्माद् दशांशतः ॥ ७५ ॥

मन्त्रसाधनम्। शालिपिष्टप्रतिकृति नदीसैकतगां क्रमात् ।

छित्त्वा छित्त्वा तु जुहुयात् पादमारभ्य दक्षिणम् ।। ७६ ॥
विप्रं तेन वशं कुर्यादपामार्गेन्धनानले । 

चिताकाष्ठानले प्रोक्तपुत्तल्या राजवश्यकृत् ॥ ७ ॥ वैश्यशदावपि तथा वशे कुर्यान्न संशयः ।

तिलतण्डुलतीक्ष्णाज्यैर्हेमकोष्ठानले रिपोः ॥ ७८ ॥
उन्मादाय जुहोत्यस्य शान्तिः क्षीरेण खादिरे । 

प्रियङ्ग्नौ तस्कुसुमैर्घृतेनाप्यथ वा हुतम् ॥ ७९ ॥ पुरक्षोभस्तु यद्वर्णैः कुसुरैरम्बराप्तये । साग्निवामाक्षदण्डोऽत्रिश्चतुर्थ्येन्द्रश्च तन्मनुः ॥ ८॥ १.

लिप्रविप्रकृति क. पाठः.