पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

६४८ ईशानशिवगुरुदेवपद्धतौ मन्त्रपाद:

पूर्ववत् साधनार्चार्द्यैः फलं प्राग्वत् प्रयच्छति । ४८ ॥

शास्तृमन्त्राधिकारः। अन्त्योऽनुग्रहदण्डाढ्यस्तारादिः क्षेत्रपाक्षरैः ।

भूमिः सदीर्घत्वङ्नत्या मन्त्रः क्षेत्रेशदैवतः ।। ४९ ॥
आद्येनाङ्गानि दीर्धैरन्तु स्वरैर्युक्तानि षट् कमात् ।
पूर्वसेवार्णसाहस्रं छन्दो गायत्रमेव हि ॥ ५० ॥
ऋषिस्तु वटुको नाम क्षेत्रपालस्तु दैवतम् ।
कृष्णाष्टम्यादिभूतान्तं जपेन्नित्यं सहस्रकम् ॥ ५१ ॥

पुरश्चर्या भवेदस्य ध्यानं चाथ निगद्यते । पायादञ्जनपुञ्जकुञ्जरघटानीलाञ्जनाम्भोदवद् दोभ्यां खण्डकपालमप्यथ गदां व्योमाम्बरो भीषणः । दंष्ट्रादन्तुरितास्यवृत्तकपिशस्त्र्यक्षोर्ध्वकेशालकः सर्पाकल्पशिरःसगश्चितवपुः क्षेत्रेश्वरो वश्चिरम् ॥ ५२ ।। अन्यथान्ये -

व्यालम्बोर्ध्वजटाधरं त्रिणयनं नीलाञ्जनाद्रिप्रभं

दोर्द्वन्द्वात्तगदाकपालमरुणस्रग्वस्त्रगन्धोज्ज्वलम् । घण्टाशृङ्खलमेखलाध्वनिमिलधुङ्कारभीमं विभुं वन्दे मण्डलिताहिकुण्डलधरं तं क्षेत्रपालं सदा ॥ ५३ ॥

एघेहि टुष्ठ ठलमरु भञ्ज हन विघ्न महाभैरव !
क्षेत्रपाल ! बलिं गृह ठठ।

साध्येनानेन मन्त्रेण तत्कपाले बलिं हरेत् ॥ ५४ ।। वामदोष्णाष्टदिक्स्थानामन्येषां चानलादितः ।

अनलश्चाग्निकेशश्च कालो घण्टारवस्तथा ॥ ५५ ॥ 

महाक्रोधाह्वयश्चाथ पिशिताशनसंज्ञितः।। पिङ्गलाक्षोर्ध्वकेशश्च चतुर्थ्या ठवयान्तकाः ॥ ५६ ॥

१ 'लं व्यो' ख. पाठः.