पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८६ ईशानशिवगुरुदेवपद्धतौ उपचारैर्निवेद्यान्तं यजेदावरणानि च । अङ्गानि केसराग्रेषु गोप्त्रयादीर्दलमध्यगाः || २५ || तच्छक्तीश्च दलाग्रेषु स्कन्दादीन् पीठबाह्यतः । घोषवन्तं तु निर्माल्यधरमैशे समर्चयेत् ॥ २६ ॥ अश्वं तु वाहनं शास्तुर्गजं वा मुखमण्डपे । आर्यादीनचर्येद् वीथ्यां लोकपालांस्तु तद्वहिः ॥ २७ ॥ तदस्त्राणि बहिस्तेषामित्यावरणसप्तकम् । आवरणनामानि - - गोप्ता च पिङ्गलाक्षश्च वीरसेनश्च शांभवः ॥ २८ ॥ त्रिणेत्रः शूलभृद् दक्षो भीमरूपस्तथाष्टमः । एतेऽष्टमूर्तयः शास्तुः पृथिव्यादिभिरन्विताः ॥ २९ ॥ गोप्त्री च पिङ्गलाक्षी च वीरसेना च शांभवी । त्रिणेत्रा शूलिनी दक्षा भीमरूपाष्टमी स्मृता ॥ ३० ॥ प्रभा तु नवमी तासामित्युक्ताः शास्तृशक्तयः । . स्कन्दो गणपतिश्चाथ शाम्बो मधुकरस्तथा ॥ ३१ ॥ दिक्षु पूज्यास्तु कोणेषु खड्गश्च क्षुरिका धनुः । शरश्च नामधेयैः स्वैः पूज्याः स्युर्हुफडन्तकैः ॥ ३२ ॥ आर्यः शास्ता महासेनः सेनानीर्भूतवल्लभः । रुद्रजो रूपवान् कामी वरदो लोकपावनः || ३३ ॥ नीलाश्वः श्वेतमातङ्गः श्यामी पीतानुलेपनः । रक्तमालाधरः शूरो मायो मातृगणप्रियः ॥ ३४ ॥ कालवासा गणाध्यक्षः खड्गहस्तो धनुर्धरः । सहजायो जनावेशः साधुः संसाररक्षकः ॥ ३५ ॥ मधुमान् शम्बरश्चैते ह्यष्टाविंशतिभूतपाः । इन्द्राद्या लोकपालाश्च वज्राद्यान्यायुधानि च ॥ ३६॥ सम्पूज्य गन्धपुष्पाद्यैर्बल्यन्तं स्थिरबेरके । बले च स्थण्डिले गन्धपुष्पधूपैस्ततो घिया ॥ ३७॥ [ मनपाद: