पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ अङ्गानि शक्तीः षण्मूर्तीः परिवारांश्च पूजयेत् । केसरेषु तदग्रेषु दलाग्रेषु च तद्वहिः ॥ १२८ ॥ अङ्गादीन् लोकपालांस्तांस्तदस्त्राणि च पूजयेत् । आवरणनामानि - विद्या शान्तिः स्मृतिर्मेधा प्रज्ञा कान्तिर्द्युतिर्धृतिः ॥ १२९ ॥ व्यापिनी चेति बिन्द्वन्तास्तन्मध्ये नवमीं यजेत् । सनत्कुमारः स्कन्दश्च विशाखः षण्मुखस्तथा ॥ १३० ॥ नैगमेषो हेमचूडः षडिमान् पूजयेत् क्रमात् । प्राग्याम्यरक्षोवरुणवायुसोमदिशागतान् || १३१ ॥ अग्नीशयोः शङ्खपद्मौ निधी च धनवर्षिणौ । चतुर्द्वारेष्वथ द्वौ द्वौ वीरसेनादिकान् यजेत् ॥ १३२ ॥ वीरसेनमहासेनौं भद्रसेनसुषेणकौ । चारुसेनश्च सेनानीः सेनान्तौ पूर्णचित्रकौ ॥ १३३ ॥ पूज्या इत्यर्थः । बाह्ये द्वादशराशिस्था द्वादशेज्या गणेश्वराः । बाणशाखौ भद्रसेनः सेनानीश्च भवात्मजः ॥ १३४ ॥ सुब्रह्मण्यः कार्तिकेयो गुहो वै कुकुटध्वजः । मयूरवाहनश्चैव गाङ्गेयश्च ततः परम् ॥ १३५ ॥ देवसेनापतिश्चैव द्वादशैते गणेश्वराः । तद्वाह्ये लोकपालास्तु पूज्याः सायुधवाहनाः ॥ १३६ ॥ विघ्नं च वीरभद्रं च याम्ये मातृश्च पूजयेत् । वायोः समीपे दुर्गां च धूर्तसेनं तथैशतः ॥ १३७ ।। एवं सपरिवारं तमिष्ट्वाग्नावपि पूजयेत् । तिलाज्यबैल्वचरुभिर्नित्यहोमः प्रशस्यते ॥ १३८ ॥ मन्त्रसाधनाघधिकारः । ग. [मन्त्रपॉड: पाठ:-