पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पाशुपतास्राद्यधिकारः] पूर्वार्धे एकत्रिंशः पटलः । युवा कुमारो बालो वा स्कन्दो ध्येयः स्मिताननः ।

पाणिभ्यां पङ्कजेऽधस्तादूर्ध्वं शक्तिं च कुक्कुटम् ॥ ११५ ॥
बिभ्रञ्चतुर्भुजः स्कन्दो ध्येयः पद्मासने स्थितः । 

दक्षिणे पङ्कजं शक्तिं मातुलुङ्गं च वामतः ॥ ११६॥ पाशं चतुर्भुजो विभ्रदेकवक्रो युवा गुहः । अभयं पङ्कजं शक्तिं दक्षिणे वरतोमरे ॥ ११७ ।।

कुलिशं षड्भुजो बिभ्रदुपविष्टोऽम्बुजासने ।
स्थितोऽपि षण्मुखो ध्येयस्त्वेकवक्रोऽथवा भवेत् ॥ ११८ ॥
अभयं शक्तिशूलेषून् कुलिशं चाकुशं करैः । 

दक्षिणे धारयंस्तद्वत् कटिस्पर्शिवरप्रदम् ॥ ११९ ॥ दण्डं च तोमरं चापं घण्टां पाशं च वामतः । अधोहस्तात् प्रभृत्यूर्ध्वं स्याद् द्वादशभुजो विभुः ॥ १२० ॥

स्नात्वा मूलाङ्गमन्त्रैस्तु कृतसन्ध्याविधिः शुचिः ।

धौताङ्घ्रिहस्तः स्वाचान्तो द्वारि द्वाःस्थाविमौ यजेत् ॥ १२१ ॥

शक्तिपाणये नमः । वज्रपाणये नमः । 

प्रविश्यान्तरुपासीनो विघ्नेशं च गुरुं यजेत् ।

कृतात्मयागस्तिलकी मूलाङ्गाढ्योदकेन तु ॥ १२२ ॥ स्वशिरोर्चाक्षितिद्रव्यप्रोक्षणादिविशुद्धितः । 

भद्रके मण्डले शक्तिमनन्तासनगात्रकान् ।। १२३ ॥

धर्मादीन् कन्दनालाब्जैः सत्त्वाद्यान् मण्डलानि च ।
ब्रह्मादींश्चापि विद्याद्याः शक्तीर्याद्यैर्नवाक्षरैः ॥ १२४ ॥ 

क्षान्तैर्दीर्घस्वरार्धेन्दुयुक्तैः सङ्कल्प्य पूजयेत् ।

स्कन्दमूर्ति यथोद्दिष्टां कर्णिकायां निवेश्य तु ॥ १२५ ॥
हृत्पद्माद् द्वादशान्ताद् वा ज्योतिः सौषुम्नमार्गतः । 

स्कन्दात्मकं समावाह्य मूर्तौ संस्थाप्य रोधयेत् ॥ १२६ ॥ संनिरुध्यावकुण्ठ्याथ प्ररोच्यामृततां नयेत् । व्द्यष्टोपचारैरघ्यद्यैरभिपूज्य यथाविधि ॥ १२७ ॥ .. 'मन्त्रादीन्' ग, पाठः.