पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१.. ईशानशिवगुरुदेवपद्धतौ सर्वरक्षाकरमिदमात्मनो वा परस्य वा ।

कृष्णं कर्णे :नयनयोः कुक्षौ मारे स्मृतं तु तत् ।। १०३ ॥
बाधिर्यमन्धता शूलं बीजमापादयेत् स्फुटम् । 

बीजमग्निमयं देहे ध्यातं शत्रोस्तु दाहकृत् ॥ १० ॥

हृद्याग्निवायुबिम्बस्य स्मृतं योषिद्वशङ्करम् | 

चक्रीभृद्भैरवास्यस्थं यन्त्रं तन्नामबीजवत् ॥ १०५ ॥ वास्तम्भनकर शत्रोर्जृम्भा मोहादिभूगृहे ।

मधुरत्रयकुम्भस्थ क्षुत्पिपासाज्वरादिहृत् ॥ १०६ ॥ 

षट्कोणे मूर्ध्नि तद् ध्यातं दष्टस्याघोऽवतारितम् । पादान्तं त्रिरिदं सद्यो विषसंहरणं स्पृशेत् ॥ १० ॥ अनूग्ध्वाग्निविषं बीजममृतास्रावि पाण्डुरम् ।

कण्ठे वामकरे ध्यातं विषमृत्युजरापहम् ॥ १०८ ॥
षट्कोणमध्यगं बीजमग्निवाय्वादिवर्जितम् । 

अनूर्ध्याग्न्यिादिकं षट्सु कोणेष्वमिसमन्वितम् ॥ १०९ ॥ बहिर्भूमण्डलोपेतं भूर्जे रोचनयार्चितम् ।

पिण्डयन्त्रोक्तविधिना गुलिकीकृत्य साधितम् ॥ ११० ॥
चिन्तामणिसम ह्येतत् प्राग्वत् सर्वार्थसाधकम् । 

प्रणयोऽथ वचः शब्दः कर्णी नाभिस्ततो जलम् ॥ १११ ॥

रुद्रस्वरस्थं नत्यन्तो गुहमन्त्रः स्वराक्षरः । 

विश्वामित्रोऽस्य तु मुनिरुष्णिग् छन्दस्तु दैवतम् ॥ ११२ ॥ षण्मुखोऽर्णायुतजपं पुरश्चर्यादशांशतः ।

तिलाज्यहोमं कुर्याच्च पूजां चोक्तविधानतः ॥ ११३ ॥
षण्मुखो वैकवक्रो वा द्वादशाक्षभुजो गुह. । 

चतुर्बाहुर्द्विवाहुर्वा रक्ताकल्पविभूषितः ॥ ११४ ॥ 1. 'का' स. पाठः. २. 'र्णि' ग. पाठः. ३. 'हा' ख. पाठः. समविग. पाठः, ४. 'रको