पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

साम्राथधिकारः] पूर्वार्धे एकत्रिंशः पटलः । साजेशोऽनुग्रहः साग्निः काष्ठमोबिन्दुनादवान् ॥ ६६ ॥ पिण्डे स्याद् बीजरत्नं तदखिलार्थप्रसाधनम् । • दीर्घस्वरैः स्वेनाङ्गानि जातियुक्तानि षट् क्रमात् ॥ ६७ ।। ऋषिः स्यादग्निराश्च्छन्दो दैवी गायत्रमस्य हि । बज्रं तु देवता ज्ञेयं कालाग्निसदृशद्युति ॥ ६८ ॥ षट्कोटियुक्तं तीक्ष्णाग्रं शितधाराभिरन्वितम् । सर्वास्त्रशस्त्रप्रत्यर्थिविदारणविधिक्षमम् ॥ ६९ ॥ लक्षजापः पुरश्चर्या दशांशं च तिलैर्हुतम् । चन्द्रेन्द्रबिम्बमध्यस्थं पिण्डं वज्राकृति स्मृतम् ॥ ७० ॥ ज्वालामालाकुलं पीतं स्तम्भनं सर्वविद्विषाम् । प्रतिवादिमुखे सैन्ये मत्तेभमहिषादिषु ॥ ७१ ॥ चन्द्रेन्द्रबिम्बवह्निस्थं पिण्डं तज्जपितं स्मृतम् । पतिं ज्वालाकुलं सद्यस्तत्तत् संस्तम्भयेत् स्फुटम् ॥ ७२ ॥ वाय्वग्निसंयुतं ध्यांत पिण्डं संस्तम्भमावहेत् । ग्रहमस्ते तथा ध्यातं पिण्डं तन्मोक्षमावहेत् ॥ ७३ ॥ रोचनालिखितं त्वेतत् पटादौ यत्र पूज्यते । तद् गृहं ग्रहरागाहिक्षुद्ररोगास्त्यजन्ति हि ॥ ७४ ॥ ऐन्द्रमण्डलगं पिण्डं स्तम्भयेदुद्यदायुधम् । आप्यमण्डलगं पिण्डमग्न्यनुग्रहवर्जितम् ॥ ७५ ॥ विषदष्टशिरोन्यस्तं विषं सद्यो विनाशयेत् । पद्मोदरेन्द्रबिम्बेऽपि पिण्डं पिण्डस्य मध्यतः ।। ७६ ॥ नामजीवविदर्भे तु विलिख्यं स्याद् दलेष्वथ | पश्चिमोत्तरयाम्यप्राङ्मध्येऽर्णान् विपतेर्लिखेत् || ७७ || तारं संवर्तकः साक्षः पार्श्व ठौर्विपतेर्मनुः । पञ्चार्णो विनियोगोऽस्य परस्तादिह लिख्यते ॥ ७८ ॥ १. 'से' क. ख. पाठः २. 'ध्ये' क. ग. पाठ: १७७.