________________
आद्यावृतिः स्यान्मूर्त्यङ्गैर्विद्येशैरष्टभिः क्रमात् ।
नन्दीशाद्यैस्तृतीया स्याच्चतुर्थीं दशलोकपैः ॥ ५५ ॥ तदस्रे पञ्चमी प्रोक्ता यथैवोत्तरपद्धतौ । मन्त्रसाधनाधिकारः। एकाशीतिसहस्रं तु व्योमव्यापिमनुं जपेत् ॥ ५६ ॥
तद्दशांशं दशाणं तु पलाशसमिधो धृतम् । तिलांश्च पायसं हुत्वा पुरश्चर्या प्रसिध्यति ।। ५७ ॥
अपुरश्चरणोऽप्येष भक्तस्य यजतः शिवम् | मन्त्रः संसाधयेदिष्टं किं पुनः प्रोक्तजापतः ।। ५८ ॥ आवहेन्महतीं सिद्धिं प्रोक्तां द्वित्रिचतुर्गुणम् । जपोऽणिमादींश्च गुणान् ददाति दशलक्षतः ॥ ५९ ॥ सप्तवारं जपाद् व्याधीन् सर्वानपि हरेन्मनुः । अष्टाभिश्च ग्रहान् सर्वानपस्मारान् दशाधिकैः ॥ ६ ॥
विषाणि पाठाद्धरति सदाशिवमनुः स्वयम् ।
स्वैक्यं सदाशिवं ध्यायन् कुर्यात् कर्माणि सिद्धये ॥ ६१
शान्तिकेषु स्मरेच्छुक्लं रक्तं पौष्टिकवश्ययोः ।
आकर्षणे च पीताभं स्तम्भे धूम्रं तु चाटने ॥ ६२ ॥ कृष्णं तु मारणे शत्रुजये सूर्यप्रभं शिवम् । मुक्तये शङ्खकुन्देन्दुमृणालक्षीरसन्निभम् ॥ ६३ ॥ हृत्पद्मकोटरे ध्यायन् सदासौ मुच्यते भवात् ।
यद् यदिष्टं भवेत् कर्म तत्तद्धोमजपादिना ॥ ६४ ॥ संसाधयेदयत्नेन पक्षादर्वाङ् न संशयः । पल्लवाद्यैस्तु पटले प्रोक्तद्रव्यादिभिर्हुतः ॥ ६५ ॥ नित्यमष्टोत्तरशतं तत्तत्कर्म प्रसाधयेत् ।
व्योमव्यापिप्रकरणम् । १. 'णः' न. पाठः, २. 'ल' ख. पाठः,