पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः भवद्वन्द्वं चतुर्भिः स्याद् भवोद्भवचतुष्टयम् ।

अथाष्टवर्ण हि पदं सर्वभूतसुखप्रदम् ॥ ३३ ॥
सप्ताक्षरं सर्वपूर्वं सान्निध्यकर इत्यपि ।
ब्रह्मविष्णुरुद्रपरपदमष्टाक्षरं भवेत् ।। ३४ ॥
अनर्चितानर्चितेति तथा संस्कृतवीप्सितम् ।
अष्टवर्णे पदे ज्ञेये पूर्वस्थितचतुष्टयम् ॥ ३५ ॥
साक्षिद्वन्द्वं चतुर्भिः स्याद् वेदार्णं तुरुयुग्मकम् ।
पतङ्गेति त्रिवर्णं स्यात् पिङ्गयुग्मं चतुष्टयम् ॥ ३६ ॥ 

ज्ञानद्वयं शब्दयुगं सूक्ष्मयुग्मं पदत्रयम् ।

पृथग् वेदाक्षराण्येव शिवशर्वद्वयं द्वयम् ॥ ३७॥
सर्वदेति त्रिभिर्वर्णैः पञ्चाणैर्रोन्नमो नमः । 

शिवाय व्यक्षरपदं विज्ञेयं देशिकोत्तमैः ॥ ३८ ॥ तारपूर्वं नतिद्वन्द्वं पदं पञ्चाक्षरं स्मृतम् ।

एकाशीतिपदान्येवं विज्ञेयानि क्रमेण हि ॥ ३९ ॥
तारं सर्वात्मने जातिसहितं हृदयस्य तु । 

द्वितीयं पदमुच्चार्य सशिवब्रह्मशब्दयुक् ॥ ४० ॥

स्वजातियुक्तं तु शिरः शिखामन्त्रोऽपि कथ्यते ।
तृतीयं पदमुच्चार्य ज्वालिनीति द्विरभ्यसेत् ॥ ११ ॥ 

जातियुक्ता शिखोक्ताथ चतुर्थं पदमुद्धरेत् । उक्त्वा पिङ्गलशब्दं तु वर्म स्याज्जातियोजितम् ॥ १२ ॥

पञ्चमं पदमुच्चार्य शिवाघोरास्रके तथा । 

जातियुक्तं तदत्रं स्यादङ्गानीमानि पञ्च हि ॥ ४ ॥

व्योमव्यापिमनोरस्य चन्द्रज्ञानोकमार्गतः । 

षडङ्गान्यपि दृष्टानि लिख्यन्ते तान्यनुक्रमात् ॥ ४ ॥ ओं व्योमव्यापिशिव ओं नमः सर्वात्मने पराय परमेश्वराय योगाय योगसम्भवाय तुरु तुरु सत्य सत्य भवोद्भव वामदेवाय सर्वकार्यप्रशमन सदा 1. 'त', १. 'पञ्चवणे', ३. “य भ' ख, पाठ!.