पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पाशुपतास्त्राधिकारः] पूर्वार्ध एकत्रिंशः पटलः । उक्त्वा मूर्धाय वक्राय हृदयायेति चोपरि। .

गुह्याय मूर्तये चेति षट्सप्तमुनिसंख्यया ॥ २१ ॥ 

समुद्रोदधिसंख्यार्णैः क्रमात् स्यात् पदपञ्चकम् ।

तारं नमो वीप्सितं च पदं पञ्चाक्षरं भवेत् ॥ २२ ॥ 

षड्भिर्गुह्यातिगुह्याय गोप्ने वर्णद्वयं पदम् ।

अनिर्धनायपञ्चार्णैः सर्वविद्याधिपाय तु ॥ २३ ॥ 

सप्ताणैः सर्वयोगाधिगतायेत्यष्टवर्णकम् । ज्योतीरूपायपञ्चार्णैः परमेश्वरपराय च ॥ २४ ॥ अष्टाक्षरैः परमात्मन्पदं स्याद् वेदवर्णकम् ।।

अचेतना चेतनेति पदं सप्ताक्षरं स्मृतम् ॥ २५ ।।
व्योम्निद्वन्द्वं चतुर्वर्णं व्यापिन् युग्मं तथैव च । 

अरूपिन् वीप्सित षड्भिः प्रथमद्वितयं तथा ॥ २६ ॥

तेजोयुग्मं चतुर्वर्ण ज्योतिर्द्वन्द्वं तथैव हि ।
अरूप चाप्यनग्रे च अधूमेति त्रिभिस्त्रिभिः ।। २७ ॥ 

अभस्म चाप्यनादे च नात्रयं धूत्रयं तथा । त्रियक्षराणि चत्वारि पदानीमानि वै विभोः ।। २८ ।।

ताराद्यं भूर्भुवः स्वश्च द्वित्रिद्यैर्णानि वै क्रमात् । 

पदान्यनिधनेत्यर्णैश्चतुर्भिनिधनं त्रिभिः ॥ २९ ॥

निधनोद्भवपञ्चार्णं स्याच्छिचेत्यक्षरद्वयम् । 

द्वाभ्यां शर्वेति च पदं विज्ञेयमिह देशिकैः ।। ३० । । महेश्वरति श्रुत्यर्ण महादेवयदं ततः । सद्भावेश्वर पञ्चार्णं महाँतेजश्चतुष्टयम् ।। ३१ ॥

पञ्चाणं योगाधिपते मुञ्चद्वन्द्वं चतुष्टयम् । 

प्रथमद्वितयं षड्भिः सर्वयुग्मं चतुष्टयम् ।। १२ ॥ १. 'धा' क. पाठ:. २. 'कि' ख. पाठः. ३. 'श्य' ग. पाठः, _ 'भो' ख, पाठः. ५. 'व', ... 'ना' ग. पाठ:. ७. 'हादेवश्च' ख, पाठः