पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ पञ्चविंशतिभिः प्रस्थैरभिषिच्य विधानतः । उत्तमायुक्तपूजानां यथाशक्ति दिने दिने ॥ ११ ॥ एकया पूजयेल्लिङ्गे कुम्भे चित्रे च भक्तितः ।

बिल्वपत्रैत्रिशूलाभैरखण्डैः पूजयेच्छिवम् ॥ १.१५॥ 

अष्टोतरसहस्रं तु प्रातर्मन्त्रं जपेदपि ।

पलाशसमिधश्चाज्यं चरून् कृष्णतिलानपि ॥ ११ ॥ 

जुहोत्यष्टोत्तरशतं चत्वारिंशद्दिनानि तु ।

दक्षिणां च यथाशक्ति दत्त्वा पुष्टिमनुत्तमाम् ॥ ११७ ।।
लभते द्वित्रिगुणितां महतीं पुष्टिमश्नुते ।

पौष्टिकम् । स्वसैन्यरक्षणार्थ तु कुम्भयागं विधाय तु ॥ ११८ ॥ तस्याष्टौ परितः कुम्भान् भीषणाद्यैरधिष्ठितान् । सवस्त्रपल्लवफलहिरण्यानभिपूज्य तु ॥ ११९ ॥

प्राग्वल्लिङ्गं दशप्रस्थक्षीरेण च घृतेन च ।
पञ्चामृतैः पञ्चगव्यैरभिषिच्य विधानतः ॥ १२० ॥
चन्दनागरुकर्पूरैः सुपिष्टैः कुकुमोत्तरैः ।
सपीठं लिङ्गमालिप्य शोभनैर्बिल्वपल्लवैः ।। १२१ ॥ 

आपूर्य करवीराद्यैः सुगन्धिकुसुमोत्करैः ।

मालाभिर्हेमपट्टैश्च पट्टादिवसनैरपि ॥ १२२ ॥
पुरं सागरुकर्पूरं धूपं दद्याद् विशेषतः । .
घृतदीपान् निेवेद्यं च यथाशक्ति प्रयोजयेत् ।। १२३ ।।
न्यग्रोधौदुम्बराश्वत्थप्लक्षाणां तु समिच्छतैः ।
पलाशदूर्वासिद्धार्थतिलाज्यघृतपायसैः ॥ १२४ ।।
पृथगष्टोत्तरशतं निशासु जुहुयात् क्रमात् । 

प्रतिकुम्भमघोरास्त्रं जपित्वाष्टौ सहसकम् ॥ १२५ ।।