पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपाद: घोराण्यघोरयागेन शाम्यन्त्यस्य न संशयः ।

अथाप्युदाहरन्ति -

"केवलं वाप्यघोरेशमघोरास्त्रमथापि वा । इष्ट्वानेन विधानेन हुत्वा चेष्टानि साधयेत् ॥ ९२ ॥" इति। सामान्ययागो निर्दिष्टो विशेषोऽप्यथ कथ्यते ॥ ९३ ।। सामान्ययागाधिकारः। स्वयम्भुमार्षेयं वाथ लिङ्गं गोसंभवेन तुं । सद्योदुग्धेन दुग्धेन शतप्रस्थमितेन तु ॥ ९४ ॥

रुपयेच्चोत्तमां पूजामुपचारोदितक्रमात् । 

कृत्वा भूतबलिं दद्याद् रात्रावुक्तविधानतः ॥ ९५ ॥ पुनश्च पूजयेद् देवं लिङ्गे चित्रे पटे तथा ।

कूर्चेन संस्पृशन् लिङ्गमधोराष्टशतं जपेत् ॥ ९६ ॥ 

अघोरास्त्रं च कुण्डेऽथ दूर्वाज्यतिलपायसैः ।

यवैश्वाष्टोत्तरशतं पृथक् कृत्यं च संस्मरन् ।। ९७ ॥ 

एकादश द्विजान् मृष्टं भोजयेञ्च सदक्षिणम् ।

अघोरमूर्तिभंगवान् सास्त्रो में प्रीयतामिति ॥ ९ ॥ 

एवं प्रवर्तयेद् योगं पञ्चविंशतिवासरान् ।

सविशेष समाराध्य ततो यागं समापयेत् ॥ ९९ ॥
शाम्यन्ति घोरदुःखानि ग्रहरोगापमृत्यवः ।
उपसर्गांस्तथा मारीपीडाः क्षुद्रकृताश्च याः ।। १०० ॥
शाम्यन्त्यायुष्यमारोग्यमैश्वर्यं चास्यं जायते ।
शक्तस्यायं समुद्दिष्टो यागस्य विधिरुत्तमः ॥ १०१ ॥ 

अशक्तस्य तु पादोनं तदर्धनाथ वा स्मृतः। केवलं रोगशान्त्यर्थ दशप्रस्थघृतेन तु ॥ १०२ ॥

१. 'यो' ग पाठः. २. 'यो' ख, पाठः,