पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६६ ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः भीमश्चाप्यथ संहर्ता कालश्चण्डोऽथ भद्रकः। .

उग्रो भवश्च पातालो व्योमेशश्च क्षितीश्वरः ॥ ७४ ॥ 

अधीशश्चाथं पत्राग्रगताः षोडश भैरवाः ।

श्रीकण्ठाद्यास्तथा रुद्राः पूर्णोदर्यादिशक्तयः ॥ ७५॥
पूर्वोक्ताः स्युस्तथेन्द्राद्या वज्राद्याश्चैव हेतयः ।
वृषो विघ्नो वीरभद्रः शास्ता देवी प्रभा ततः ।। ७६ ॥
सत्यकः श्रीसरस्वत्यौ ज्येष्ठा शङ्खोऽथ षण्मुखः ।
विशाखो नैगमेषश्च दुर्गा चण्डेश्वरस्तथा ॥ ७७॥ 

क्षेत्रपालश्च पूर्वादिदिग्विदिङ्मध्ययोगतः । एवमावरणान्यष्टावघोरयजनेऽर्चयेत् ॥ ७८ ।।

दद्याद् देवस्य चाङ्गेभ्यो नैवेद्य तूपपत्तितः ।
कलाद्यावरणेभ्यस्तु बलिं भूमौ विनिक्षिपेत् ॥ ७९ ॥ 

तद्बाह्ये दिग्विदिग्स्थाः स्युर्गणास्तेभ्यो बलिं क्षिपेत् । तद्यथा आदित्या मरुतः साध्या गन्धर्वाः पितरस्तथा ॥ ८ ॥

रुद्राश्च राक्षसा नागाः सिद्धविद्याधराः सुराः ।
सुपर्णप्रेतकूश्माण्डवसवो यक्षकिन्नराः ॥ ८१ ॥ 

भूता विनायका विश्वे पिशाचाश्चाश्विनौ गणाः। योगिन्यश्चाथ डाकिन्यश्चतुर्विंशतिधा गणाः ॥ ८२ ॥

दिग्विदिङ्मध्यसंस्थास्ते षोडशोर्ध्र्वं चतुर्विधाः ।
अधश्चैते चतुर्धा स्युः पूज्यास्तेभ्यो बलिं क्षिपेत् ॥ ८३ ॥
तबाह्ये दशदिक्स्थेभ्यो गणेभ्यो विकिरंद् बलिम् ।

पूर्वस्यां दिशि शिवस्य भगवतो ये गणा वज्रपाणयः श्वेताः श्वेताक्षाः श्वेतलोहिताः दिव्यन्तरिक्षभौमाः पातालनिवासिनश्च, तेभ्यस्ताभ्यो नमो नमः ठठ । आग्नेय्यां दिशि शिवस्य भगवतो ये गणोः शक्तिपाणयो रक्ता १. 'प्र', २. 'नो' ख. पाठः.