पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अघोरास्त्राधिकारः] पूर्वार्धे त्रिंशः पटल: । संपूज्य दद्यान्नैवेद्यमुत्तमाद्यं स्वशक्तितः ।

वादित्रगीतनृत्तैश्च परितोष्य महेश्वरम् ।। ६२ ।।
प्राच्यां प्रागुत्तरे वाथ कृते कर्मानुसारतः । 

कुण्डे शिवाग्नौ वेदाश्रे साघोरास्त्राङ्गतत्कलाः ॥ ६३॥ अघोरं देवमावाह्य संपूज्य जुहुयात् ततः ।

प्रागुत्तरेण कुण्डस्य शान्तिकुम्भस्थमर्चयेत् ॥ ६४ ॥
पलाशबैल्वप्लक्षाश्च वटोदुम्बरपैप्पलाः । 

समिधो घृतसंसिक्ताः शाल्यन्नं पायसं घृतम् ॥ ६५ ॥

कृष्णांस्तिलान् वेणुयवान् शालिसिद्धार्थलाजकान् ।
क्षीरं मधु तथैकैकं पृथगष्टोत्तरं शतम् ॥ ६६ ॥ 

अघोरेण तथास्त्रेण हुत्वाङ्गैस्तद्दशांशतः ।

अर्धरात्रे बलिं दद्याद् भूतक्रूरेण देशिकः ॥ ६७ ॥ 

अर्ध्याम्बुगन्धपुष्पाद्यैरिष्टाथ विकिरेद् बलिम् ।

कलाद्यावरणेभ्यश्च देवताभ्यो यथाक्रमम् ॥ ६८ ॥
आवरणदेवतानामानि यथा -

तामसी मोहनी रात्रिर्निष्ठा व्याधिश्व मारणी ।

क्षुधा तृष्णेत्यघोरस्य शक्तयोऽष्ट कलाश्रिताः ॥ ६९ ॥
भाषणो भैरवो भीमो रौद्रोश्चोग्रो भवस्तथा ।
घोरो घोरतरश्चाष्टौ दलमध्यस्थिताः क्रमात् । ७० ॥
ब्राह्मी माहेश्वरी चाथ कौमारी वैष्णवी तथा ।
वाराह्यैन्द्री च चामुण्डी चण्डिका चाष्ट मातरः ॥ ७१ ॥
असिताङ्गो रुरुश्चण्डः क्रोधेशोन्मत्तकावपि ।
कपाली भीषणश्चैव संहारश्वाष्ट भैरवाः ॥ ७२ ॥

ब्राह्मयाद्याश्चासिताङ्गाद्याः पूज्याः स्युर्दलसन्धिषु ।

भैरवेशस्तथोन्मत्तः क्रूरो मार्ताण्डकोपनौ ॥ ७३ ॥
१, 'न्ति', २. 'य' ख. पाठः

१६५