पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः खट्वाङ्गदन्तौ शूलं च कपालाङ्कुशपाशकान् ।

हलपासशरेष्वासखड्गखेटाक्षमालिकाः ॥ २६॥ 

पद्मं दण्डं डमरुकमभयं वरदं क्रमात् । अष्टादशभुजैर्हेतीन् बिभ्राणं दक्षिणेतरैः ॥ २७ ।।

दंष्ट्रादन्तुरभीमास्यं पिङ्गश्मश्रुजटाधरम् ।
उष्णीषकुण्डलादीनि नूपुरान्तानि यानि वै ॥ २८ ॥
भूषणानि भुजङ्गेन्द्रैः क्लृप्तानि दधतं विभुम् ।
वसानं चर्म वैयाघ्रं मुण्डमालाविभूषितम् ॥ २९ ।। लूतावृश्चिकसंमिश्रकण्ठालसितभूषणम् ।
दष्टाधरोष्ठं वृत्ताक्षं भृकुटीकुटिलाननम् ॥ ३०॥
अघोराक्षररूपैश्च रुदैः शक्तिभिरावृतम् । 

षोडशारस्य चक्रस्य मध्यपद्मोदरस्थितम् ॥ ३.१ ॥ वक्ष्यमाणैस्तथा रुद्रैर्भैरवैर्मातृभिर्वृतम् ।।

दक्षिणाभिमुखं देवं तदस्त्रं तस्य पश्चिमे ॥ ३२ ॥

ध्यात्वा जपादिकं कुर्याद् भित्तावालिप्य वा. पटे।

अघोरध्यानम् -

अघोरास्त्रं तथा ध्यायन् भिन्नाञ्जनगिरिद्युतिम् ॥ ३३ ॥

स्पष्टदष्टाधरोष्ठं तं लसद्दंष्ट्रोत्कटाननम् ।
संरक्तगन्धक्सनमाल्यभूषणभूषितम् ॥ ३४ ॥
अष्टबाहुं धृतोदग्रसप्तायुधविभूषितम् ।।
शूलमूलं च वेतालं खड्गं डमरुकं कमात् ॥ ३५ ॥
दक्षिणैरितरैर्दोभिः कपालं चाप्यधस्तनात् । 

घण्टा खेटं शूलमध्यं बिभ्राणं चोत्तरोत्तरैः ।। ३६ ॥

वृत्तपिङ्गत्रिणयनं भृकुटीकुटिलोत्कटम् । 

ज्वलदग्निमिशिखाकारं पिङ्गलोर्ध्वशिरोरुहम् ॥ ३७॥ १. 'णं तथा', २. 'ख्य'-ग. पाठः३. शस्त्रम् ख. पाठ: 'मुद्रं . .