पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे त्रिंशः पटलः । द्वयोरपि षडङ्गानि पृथक स्वार्णैर्भवन्ति हि । ऋषिर्द्वयोर्गालवः स्याच्छन्दस्तु बृहती मता ॥ ११ ॥

अघोरमूर्तिस्तु शिवो देवता स्याद् द्वयोरपि ।
साधनाद्यं द्वयोस्तुल्यं नान्योन्यं तौ हि मुञ्चतः ॥ १४ ॥
अघोरं साधयन्नस्त्रं तद्दशांशं जपेदपि ।
 त्रमघोरं च जपेत् तथा ॥ १५ ॥
आदिस्थ नवे बीजे स्यादघोरेभ्योऽथ हो्वों च हृत् ।
अथ घोरेभ्य इति च प्रेंशिरो जातिसंयुतम् ॥ १६ ॥ 

धोरघोरतरेभ्यः खमौ बिन्दुसहितं शिखा । सर्वतः शर्वसर्वेभ्यः प्रोङ्कारः कवचं भवेत् ॥ १७ ॥ नमस्त इत्यादिभिः स्यान्नेत्रमेकादशाक्षरैः ।

परिशिष्टैः पञ्चवीजैरस्त्रं सर्वत्र जातिभिः ॥ १८ ॥
युतानि स्युरघोरस्य षडङ्गानि निजाक्षरैः ।
अघोरास्त्रस्य चाङ्गानि निजवर्णैर्भवन्ति हि ॥ १९ ॥ 

रसर्तुवेददिङ्नागवसुसंख्याक्षरैः क्रमात् ।

स्वस्वजातियुतानि स्युरङ्गानि षडनुक्रमात् ॥ २० ॥
स्वयम्भुवि तथार्षे वा एकलिङ्गेऽथ वा सुरे । 

पश्चिमा वदने लिङ्गे पुरश्चर्यांं समाचरेत् ॥ २१ ॥

व्रत्याशनो यजञ्छम्भुं त्रिः स्नायी नियतेन्द्रियः । 

लक्षं जपेदघोरं चाप्यघोरास्त्रं च भक्तितः ॥ २२ ॥ सद्दशांशेन जुहुयात् तिलानाज्यविमिश्रितान् । - अशक्तः स्वार्णसाहस्रं जपेद्दुत्वा दशांशतः ॥ २३ ॥

जपन् द्वित्रिचतुर्लक्षं महतीं सिद्धिमश्नुते । 

साष्टत्रिंशत्कलामूर्तमञ्जनाभं चतुर्मुखम् ॥ २४ ॥

अष्टादशभुजं रौद्रं प्रतिवक्रं त्रिलोचनम् ।
वसानं चर्म वैयाचं गजचर्मोत्तराम्बरम् || २१ ||

'धनाद्य दू', २. 'य' viiafधकारः ] ३.. 'रं चास्त्रभ' ग. पाठः, W १६१