पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ त्रिंशः पटलः । शुक्लं च नादबीजं चाप्यन्त्योऽनुग्रहबिन्दुमान् ।

भृगुः खमथ वह्निस्थं शुक्लं भौतिकबिन्दुमत् ॥ १ ॥ 

षष्ठाक्षर स्यांच्छुक्लं च खं शुक्लं साग्न्यनुग्रहम् । बिन्दुमन्नवमं बीजमघोरेभ्यः समुद्धरेत् ॥ २ ॥

होंबीजं च समुद्धृत्य अथ घोरेभ्य इत्यपि । 

एकोनविंशत्यर्णोऽयं पार्श्वं साग्न्योष्ठबिन्दुमत् ॥ ३ ॥ घोरघोरतरेभ्यश्च खं सानुग्रहबिन्दुमत् ।

सर्वतः शर्वसर्वेभ्यः प्रोङ्कारस्तदनन्तरम् ॥ ४ ॥
नमस्तेअस्तुरुद्रान्ते रूपेभ्य इति चोद्धरेत् । 

व्योमाग्नौ बिन्दुमत्पश्चाद् वाग्भवं मान्मथं तथा ॥ ५ ॥ शक्तिं श्रियं ततः शुक्लं सानुग्रहविसर्जनम् । उद्धृत्याधोरमन्त्रः स्याच्चतुःपञ्चाशदक्षरः ॥ ६॥

तारादिर्वैदिकेऽप्यस्मिन् विज्ञेयः स्याद् द्विजातिभिः ।
तारं च लोहितः साग्निः स्फुरशब्देश्च वीप्सितः ॥ ७ ॥

दन्ती शिवोत्तमश्चामिस्तौ चाषढिभुजङ्गको । अणुषूभकतः प्रकतः कह कह वमघातयेति च वीप्सितम् ।

वर्मास्त्रे चेत्यघोरास्त्रो द्विचत्वारिंशदक्षरः ॥ ८ ॥ 

अस्यैव बीजमन्त्रश्च कथ्यते द्वादशाक्षरः ।

पार्श्वं साग्न्योष्ठचन्द्रार्ध खं साग्न्योऽकारबिन्दुकम् ॥९॥
वाग्भवस्मरहल्लेखा श्रीप्रसादसरस्वती । 

अस्त्राय फडिति प्रोक्तो मन्त्रोऽयं द्वादशाक्षरः॥ १० ॥ द्विचत्वारिंशदर्णेन संयोज्य द्वादशाक्षरम् ।

चतुष्पञ्चाशदर्णं स्यादघोरास्त्रमपि स्फुटम् ॥ ११ ॥
एवं अघोरमन्त्रश्वाप्यघोरास्त्रं च कीर्तितम् । 

सहपाठे द्वयोर्वर्णा भवन्त्यष्टोत्तरं शतम् ॥ १२ ॥ १. 'स्या', २. 'ग्न्यो ', ३. 'को' ख. पा ख. पाठा. ६. 'च', ५. 'न्दुमत् ॥', 4. . 'सा' ग. पा.. ५. 'कि ग. पा.