पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथेकोनत्रिंशः पटलः । वामदोर्मध्यमः साघी सदण्डस्तारपूर्वकः ।

ससर्गश्च भृगुस्त्रवर्णः प्रोक्तो मृत्युञ्जयो मनुः ।। १ ।। 

ऋषिः कहोलश्च्छन्दोऽस्य दैवी गायत्रमुच्यते । विनियोगो मृत्युजये दैवं मृत्युञ्जयः शिवः ॥ २ ॥ बिन्द्वन्तावस्य मध्यान्त्या षडङ्गान्यायतैः स्वरैः ।

बीजानि त्रीणि करयोर्ज्येष्ठाद्यङ्गुलिपर्वसु ॥ ३ ॥ 

कनिष्ठादिषु चाङ्गानि तलयोरस्त्रमन्त्रतः । पादादिकं तु गुह्यान्तं प्रथमार्णं तु विन्यसेत् ॥ ४ ॥ गुह्यादिकं तु कण्ठान्तं द्वितीयं बीजमप्यथ ।

तृतीयनपि कण्ठादिमूर्धान्तं विनिधाय तु ॥ ५ ॥
हृदादिस्वावकाशेषु षडङ्गान्यपि विन्यसेत् ।
लक्षत्रयं पुरश्चर्याजपस्तस्माद् दशांशतः ॥ ६ ॥
छिन्नाः क्षीराज्यमध्वाक्ता जुहोति चतुरङ्गुलाः।

ध्यायन् मृत्युञ्जयं स्वैक्यं यजनित्रादिके जपेत् ॥ ७ ॥

पायात् पाण्डरपुण्डरीकपटयोरूध्र्वाधरोत्फुल्लयोर्मध्यं ____

संपुटचन्द्रमण्डलगतो वोऽष्टाब्दबालाकृतिः ।

स्वासीनः शरमौक्तिकाक्षिवलये शूलं दधत् षड्भुजो

दक्षेऽन्यत्र सुधाकपालकलशौ मुद्रां च मृत्युञ्जयः ॥८॥ अपिच --- श्वेताकल्पो लसन्मुक्ताहारिहारविभूषणः ।

त्रिणेत्रो धृतबालेन्दुर्जटामकुटभूषणः ॥ ९ ॥
ऊर्ध्वाश्चन्द्रबिम्बस्यकलाजालामृताम्बुभिः ।
इश्च्योतत्सुधाम्बुधाराभिः प्लाव्यमानः समन्ततः ॥ १० ॥ 

कर्णिकास्यान्तबीजं स्यात् तयोर्मध्येन्दुबिम्बयोः।। चिन्तयेद् वारुणं बीजं तस्माच्च्येतत्सुधाम्बुभिः ॥ ११॥ १. 'म' क. पाठः. २.न्ती', ३ , ४. 'तः', ५. 'श्री धनाणन्दु' स. पाठा.