पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे पञ्चदशः पटलः । अङ्घिपङ्कजयुग्मदीधितिनिर्जितस्थलपङ्कजो जङ्घयोर्युगकान्तिभिर्जितकेकिनीगलमङ्गलाम् । अङ्गवत् कदलीप्रकाण्डमनोरमोरुयुग श्र सुन्दरीं रशनास्पदेन च सुन्दरेण सुमध्यमाम् || ६० || विभ्रतीं तनुनोदरेण तु रोमराजिमणीयसीं कज्जलोल्ललितां यथैव वलित्रयं च मनोहरम् । रुक्मकुम्भ युगस्तनीं नवपारिजातलताभुजां तुझरत्नविभूषणेन गलेन चाप्यतिमङ्गलाम् ॥ ६१ ॥ शारदेन्दुमुखीं तरङ्गचलन्नवोत्पललोचनां चारुकर्णयुगावसंङ्गिचलत्प्रभामणिकुण्डलाम् | चारुनासिकया च रंम्यकपोलंयुग्मललाटिकां मारचापनतभ्रुवं मधुपावलीरुचिरालकाम् ॥ ६२ ॥ स्यन्दमान समस्तकान्तिरसप्रकर्षगुणास्पदां चन्द्रिकामिव शारदीममलप्रभामनपायिनीम् । इन्द्रचन्द्रमुखैर्मुनीन्द्रवरासुरैरपि वन्दिता मिन्दिरागिरिजारतिक्षितिवाग्वधूमयविग्रहाम् ॥ ६३ ॥ आश्लिष्यैनं दक्षदोष्णा तदीयं लक्ष्मप्रेम्णा पाणिना संस्पृशन्तीम् । देवं चैनां पुष्पचापाङ्कदोष्णा स्वालिङ्गाधः संस्पृशन्तं तु नीव्याम् || एवंरूपां मूलशक्तिं च तद्वत् प्रोक्ताकारं देवमप्युक्तवेषम् । ध्यात्वा सम्यक् पूजयेच्चोपचारैः शुद्धिं कृत्वा वक्ष्यमाणक्रमेण ॥ ६५ ॥ अस्त्रेऩ द्यौतं पुरोऽर्ध्यपात्रं चापूर्य तोयाक्षतगन्धपुष्पैः । सिद्धार्थदूर्वाफलदुग्धकूर्चैः साङ्गं तु मूलं विनिधाय तस्मिन् ॥ ६६ ॥ तद्ह्रादशान्तामृतपूरपूर्ण हंसेन चैतन्ययुतं विभाव्य | धेनुं प्रदर्श्याथ सधूपपुष्पैरिष्ट्वा तु कूर्चेन तदर्ध्वतोयैः || ६७ ॥ शिरः स्वमभ्युक्ष्य तथाश्रयं च द्रव्याणि चाम्भः कुसुमादिकानि । तद्विन्दुसंयोगनिरक्षिणाभ्यां विशोध्य पाद्याचनमीयके च ।। ६८ ।। 'री शरणास्प' व पाठ:. २. 'व्या:' क. पाठः. 'श' ख. पाठ: