पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ [ मन्त्रपाद: आनीयास्मादिन्दुसुधाशीकरशीतं सूक्ष्मं ज्योतिर्मूर्धनि सौपुनसरण्या | विन्यस्याब्जे मन्त्रतनुं तत्र गणेशं तेजोराशिं तप्तहिरण्यद्रवभासम् ॥ ५० ॥ पुष्पापूर्णं स्वाञ्जलिमायोज्य तु तस्मिन् दिव्यं ज्योतिः पङ्कजमध्ये विनिवेश्य | ध्यायेद् देवं सुन्दरदेहं कनकादिप्रख्यं भासा मानुसहस्रोदयतुल्यम् ॥ ५१ ॥ द्वादशबाहुः शेखरितेन्दुस्त्रिदृगिभवरमुखरुचिरतरवपुः शङ्खरथाङ्गे चाङ्कुशपाशौ मनसिजधनुरपि सरसिजविशिखान् । कल्पकशा लिक्रामुकशूले भयहरबरकरमपि दधदवतात् पद्मनिविष्टः शक्तिसखो वो गणपतिरिंभकरघृतमणिचषकः ॥ ५२ ॥ क्षमाङ्घ्रिपद्मं खतनुं रसोदरं रवीन्दुवह्नित्रिदृशं मरुध्वनिम् । प्रधानबुद्ध्यक्षशिरोविचेष्टितं समस्तलोकास्पदविश्वविग्रहम् ॥ ५३ ॥ पिशङ्गकौशेयनिभास्वराम्बरं प्रलम्बतुन्दाश्रितविश्वविष्टपम् । विचित्रहारोल्लसितोरुवक्षसं भुजङ्गमाधीशकृतोपवीतकम् ॥ ५४ ।। सुजाटजूटार्पितहेममौलिनं कलामयं ज्ञानशशाङ्कशेखस्म् | प्रपञ्चविद्यामयचारुविग्रहं समस्तशोभैकगुणास्पदं विभुम् || ५५ || सहे मनिष्काशदकण्ठभूषणं विचित्रनानावलयाङ्गुलीयकम् । विनीलरत्नोदरबर्द्धंमण्डितं पिशङ्गरत्नोज्ज्वलहेमनूपुरम् ॥ ५६ ॥ सुखोपविष्ट सरसीरुहोदरे पदाम्बुजं दक्षिणमर्थवर्षिणि । सलीलमाधाय पुरो हिरण्मये सरोजवक्रे कलशे विचिन्तयेत् ।। ५७ ।। सव्यमकमुपाश्रितां सकलेश्वरीं त्रिगुणात्मिका- मव्यया निजशक्तिमक्षरमातरं जगतामपि । भव्यरूपमनोहरामुरुपारिजातमुपाश्रितां दिव्यकल्पकवल्लरीमिव कामदां प्रविचिन्तयेत् ॥ ५८ ॥ बन्धुजीवदलत्विषा रजसा निजामरुचारुणां कुन्दकुड्मल कोमलस्मितचन्द्रिकाधवलप्रभाम् । चञ्चलीक विनीलवेल्लित केशपाशभरासिता मङ्गनां प्रथमामजां प्रकृतिं वदन्त्यपि यां विदः ।। ५९ ।। 'म्बा' ख. पाठः २. 'य' क. ग. टा. ३ स. पाठः,