पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः तच्च प्रतिसृतं कर्म शत्रुमेवाभिगच्छति ।

विषरक्तसमासिक्तैः स्याद् विद्वेषो विभीतकैः ॥ १३ १ ॥
तीक्ष्णतैलहुताल्लक्षाम्रियते ह्यमरोऽप्यरिः ।
वामोरुलिखितं नाम मन्त्रर्णान्तरितं क्रमात् ॥ १३ ॥
निशया निशि वामेन तलेनाच्छाद्य तज्जपेत् ।
आकर्षयेत् स्त्रियं ध्यायन् पाशाकर्षणविह्वलाम् ॥ १३३ ॥
अनेनैव प्रयोगेण पुंसां चाकर्षणं स्मृतम् ।
चतुर्दशीषु कृष्णासु षट्सु तीरे पयोनिधेः ॥ १३४ ।।
सैकतं लिङ्गमभ्यर्च्य निराहारोऽयुतं जपेत् ।
षट्स्वेवापरसन्ध्यासु सप्तम्यामथ मण्डले ॥ १३५ ॥ 

पद्ममध्येऽभिपूज्येशं तस्य दक्षिणतो यजेत् । -वीरभद्रं च विघ्नेशं जपापुष्पैस्तु मातृभिः ।। १३६ ॥ जपापुष्पायुतं चाग्नौ जुहुयाच्चै तदग्रतः ।

ततः स मातृभिर्विघ्नं वीरभद्रं च पश्यति ॥ १३७ ॥ 

ततोऽभीष्ट वरं लब्ध्वा मोदते देववच्चिरम् ।

बाणपुष्पायुतैर्हुत्वा युद्धे विजयमाप्नुयात् ॥ १३८ ॥ 

यद्वर्णपुष्पैर्जुहुयात् तद्वर्ण लभतेऽम्बरे ।

पाञ्चगव्यं चरुं प्राश्नन् पञ्चलक्षं जपेन्मनुम् ॥ १३९ ॥
पातकेभ्यश्च पापेभ्यो मुच्यते नात्र संशयः ।
पर्वताग्रं समारुह्य त्रिःस्नायी व्रत्यभोजनः ॥ १० ॥
यमैः सनियमैर्युक्तः कोटिसंख्यं षडक्षरम् |
जपेद्यः पूजयेल्लिङ्गं मौनव्रतधरः शुचिः ।। १४१॥ 

सोऽनेनैव शरीरेण खेचरः कामरूपधृक् । अणिमादिगुणैश्वर्य लब्ध्वा सिद्धैश्च सामरैः ॥ १४२ ॥ वन्धमानो गणेशैश्च पूज्यमानः स. सर्ववित् । -सर्वलोकाभिगामी स्यात् सर्वान् देवांश्च पश्यति ॥ १५५ ।। ..' . पाठः. २. 'शां' क. पाठः. ३. 'च जपान', ४. ख. पार: