पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवाधिकारः पूर्वार्धेअष्टाविंशः पटलः । ग्रहणे विष्वयनयोर्मासं प्राक् समुपोषितः । पूजयेद् भस्मदिग्धाङ्गः शिवं शक्तया जपेदपि ॥ ११७ ॥ पलं श्वेतवचाचूर्णं कपिलाज्यं चतुष्पलम् | मन्त्रेणायु तमालब्धं पीत्वा सर्वज्ञतामियात् ॥ ११८ ॥ पौर्णमास्यां यदा माघसंक्रान्तिः सा सरस्वती । प्राक् त्रिरात्रोषितस्तस्यां शिवमिष्ट्वा यथाविधेि ।। ११९ ।। जपेद् रात्रावनशनो भस्मदिग्धो नदीतटे । प्रातः स्नानादिकं कृत्वा गव्याज्यं भस्ममिश्रितम् || १२० ॥ पलाशपत्रगं स्पृष्ट्वा जपित्वाष्टसहस्रकम् । पीत्वा तत्पञ्चगव्यं वा ज्ञानं प्रज्ञां च विन्दति ।। १२१ ।। हंस वागीश्वरीबीजैः संपुटं तु षडक्षरम् । लक्षत्रयं जपेद् ध्यात्वा सर्वज्ञो नचिराद् भवेत् ॥ १२२ ॥ एवं षडक्षरं मन्त्री हंसवागीश्वरीयुतम् । व्रत्यादेशाशनो भक्तया लक्षाणां दशकानि तु ॥ १२३ ॥ जपेत् क्रमेणा णिमादीन् प्राप्य विद्याधरो भवेत् । बिल्वच्छायागतो नित्यमयुतं प्रजपेच्छुचिः ॥ १२४ ॥ तत्फलं जुहुयात् साज्यमष्टोत्तरसहस्रकम् । अलक्ष्मीमपकृष्याथ मासेन धनवान् भवेत् ॥ १२५ ॥ मासौ मासांश्च षड्वाब्दं य एवं जुहुयाज्जपन् । संपूजयन् शिवं भक्त्या श्रिया स धनदो भवेत् ॥ १२६ ॥ पलाशकुसुमैः पुत्रः स्याद्धुतैस्तत्समिधुतात् । उत्पातशत्रुबाधानां सद्यः शान्तिर्भविष्यति ॥ १२७ ॥ ग्रहपीडासु हुत्वाष्टसहस्रमयुतं जपेत् । साध्यैस्तिलैर्भवेच्छान्तिर्दुःस्वप्रेऽष्टशतं हुतात् ॥ १२८ ।। ग्रहणे लिङ्गमभ्यर्च्य ध्यात्वेष्टमयुतं जपेत् । लभते तद्भवां शान्तिं तथा वायुतहोमतः ॥ १२९ ॥ सर्वत्र लिङ्गमभ्यर्च्य कुर्यात् कर्माणि संनिधौ । आभिचारकशान्तिः तः स्यात् त्रिसन्ध्य जपहोमतः ॥ १३० ।।