________________
ईशानशिवगुरुदेवपद्धतौ
सिद्धिर्भवति में येन त्वत्प्रसादात् त्वयि स्थि(तम्ता ।)
यत्किञ्चित् कर्म हे देव ! सदा सुकृतदुष्कृतम् ॥ १० ॥ तन्मे शिवपदस्थस्य हुं क्षं क्षपय शङ्कर! । शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ॥ १०५ ।।
शिवो यजति सर्वत्र यः शिवः सोऽहमेव हि ।
साङ्गमूलाङ्गमित्येभिरर्पयचुलुकाम्बुभिः ॥ १०६ ॥ अथास्य सिद्धमन्त्रस्य विनियोगा भवन्ति हि । मन्त्रः प्रच्यवते वीर्याद् विनियोग विना यतः ॥ १०७ ।। एकादशजपात् स्नानप्रोक्षणान्नोदकादिकम् । आयुरारोग्यदं नृणामघदोषापहं च तत् ॥ १०८ ॥
दूर्वातिलाज्यच्छिन्नानां लक्षहोमोऽपमृत्युजित् ।
सर्वरोगग्रहक्लेशहरमायुर्विवर्धनम् ॥ १०९ ॥ पर्वताग्रे महानद्यां जपाच्चायुरवाप्नुयात् । आदित्याभिमुखो लक्षं जपंश्चाष्टोत्तरं शतम् ॥ ११० ॥ जुह्वत् साज्यांस्तिलान् रोगान् जयेच्चायुश्च विन्दति । शनैश्चरदिनेऽश्वत्थमालभ्यापि जपेत् तथा ॥ १११ ॥ अष्टोत्तरशतालब्धौषधं वा लजं पिबेत् । औदरैर्मुच्यते रोगैर्विषमप्यमृतं भवेत् ॥ ११२ ॥
आदित्याभिमुखः स्थित्वा नाभिदघ्ने जले जपेत् । सहस्रं वा शतं नित्यमायुरारोग्यवर्धनम् ॥ ११३ ॥ नद्यम्भःपूरितं कुम्भं यथावदयुतं जपेत् । स्पृष्ट्वाभिषेकस्तेन स्याद् ग्रहरोगापमृत्युजित् ॥ ११४ ॥ स्वबीजसम्पुटं कुक्षौ न्यस्तं शूलादिनाशनम् । ब्राह्मीं धृतरसं वापि चन्द्रसूर्योपरागयोः ॥ ११५ ॥ आमोक्षाज्ञपितं पीत्वा प्रज्ञाश्रुतधरो भवेत् ।
आर्द्राकृष्णचतुर्दश्यां तथा कृष्णाष्टमी वा ॥ ११६ ॥
१. 'भा', २. 'सर्वेति यः' खे. पार:. ३. 'ना', ४. 'पा' क. ग. पाठी, ५. 'टं क्षिप्तौ' ख. पाठ:.