पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ ऐन्द्राद्यमाग्नेयादिकं चेति यावत् । प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ।। ८४ ॥ पश्चिमे तु वृषस्कन्दौ देवीपण्डौ तथोत्तरे । द्वारावरणस्तृतीयः। इन्द्राद्यैर्दशलोकेशैश्चतुर्थावरणं स्मृतम् ॥ ८५ ॥

इन्द्राय सुगधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदे नमः ।
तत्पार्षदेभ्यो नमः इत्यादि।

स्थिरलिङ्गं यदा पूज्यं तत्र लोकाधिपावृतौ ।

इन्दात् प्राच्यां तु वृषभं शयानं नामतो यजेत् ॥ ८६ ॥ 

यमात् पश्चिमतो विघ्नं वीरभद्रं च पश्चिमे । मातरः स्युस्तयोर्मध्य सप्त पूज्याः स्वनामभिः ॥ ८ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।

वाराह्यैन्द्री तु चामुण्डीत्यथासामग्रतः पुनः ॥ ८८ ॥ मातृभ्यो नमः । सर्वमातृभ्यो नमः । सर्वमातृगणेभ्यो नमः इत्यभ्यर्च्य, निर्ऋतेर्दक्षिणे शास्ता तत्पुत्रश्चाथ सत्यकः।

प्रभा देवी दक्षिणतो दुर्गा वायोस्तु पूर्वतः ॥ ८९॥ 

धनदात् पश्चिमे स्कन्दश्चण्डेशश्चैव गोचरे ।

क्षेत्रपाल च चण्डात् प्राक् तानिष्ट्वास्त्रावृति यजेत् ॥ ९॥
वृषाद्याः क्षेत्रपालान्ताः पूज्या लिङ्गं स्थिरं यदा,। 

न चले स्थण्डिले पूज्याः पूज्या वेत्यपरे जगुः ।। ९१ ॥

वज्रं शक्तिं तथा दण्डं खड्गं पाशाङ्कुशौ गदाम् ।
त्रिशूलं पद्ममित्यस्त्रैः पञ्चमी तु वृतिर्भवेत् ।। ९२ ॥ 

इत्थं सपञ्चावरणमिष्ट्वा शम्भु तथानले। घृतेनान्नेन च तिलैर्हुत्वान्नेन बलिं क्षिपेत् ।। ९३ ॥

1. 'व तत्त्वाव', २. न्',. ३. 'नि दृष्ट्वा' स. पाठः