पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४१ शिवाधिकारः] पूर्वार्धे अष्टाविंशः पटकः । शिवमूर्तीश्च शक्तयन्ताः शुद्धविद्यान्तमासनम् ।

ध्यात्वैवमासनं मूर्ति विद्यादेहं च साधकः ॥ ७३ ॥
यथोपचारपटले प्रोक्तमावाहयेच्छिवम् ।
स्थापनं संनिरोधं चाप्यवकुण्ठं प्ररोचनम् ।। ७१ ॥
अमृतीकरणं च स्यादुपचारोक्तमार्गतः । 

अङ्गानि ब्रह्मवक्त्राणि तारह्रद्वीजनामभिः ।। ७५ ॥

नमः स्वाहा स्वधा वौषड् वषडित्यस्य मस्तके ।
पुष्पाञ्जलिं समायोज्य ध्यात्वा देवं सदाशिवम् ॥ ७६ ॥ 

भोगाङ्गानि तदङ्गेभ्यो दीपेभ्य इव दीपकाः ।

समानीयानलेशानरक्षोवायुदलेष्वथ ॥ ७७ ।।
विन्यस्य नेत्रं पुरुतः शिवास्त्रं दिग्दलेष्वथ ।
पूजयेत् तु शिवाङ्गानि वराभयकराणि तु ।। ७८॥ 

तत्रास्रं ज्वलनप्रख्यं स्त्रीरूपं च चतुर्भुजम् ।

ध्यात्वैवमेकावरणप्रासादे संयजेच्छिवम् ॥ ७९ ॥

एकावरणाधिकारः। पञ्चाक्षरादिमन्त्राणां पञ्चावरणसंवृतः । पूजनीयः शिवो नित्यं भोगमोक्षफलेच्छुभिः ॥ ८० ।। तत्राप्यङ्गैर्ब्रह्मभिश्च प्रथमावरणं स्मृतम् ।

द्वितीयं चाष्टविद्येशैर्नन्दीशाद्यैस्तृतीयकम् ।। ८१ ॥

चतुर्थमपि लोकेशैस्तदस्त्रैः पञ्चमा वृतिः ।

तद्यथा

अङ्गौश्च ब्रह्मभिश्चाद्यं प्रोक्तमावरणं हि तत् ॥ ४२ ॥ विद्येश्वरान् यजेदष्टौ पीठप्रान्तेऽम्बुजाद् बहिः ।

अनन्तसूक्ष्मौ च शिवोत्तमश्च स्यादेकनेत्रश्च शिखण्डिसंज्ञः। 

श्रीकण्ठनामा च ततस्त्रिमूर्तिरथैकरुद्रोऽपि च दिग्विदिक्स्थाः ॥४३॥ १. 'न्य' ख. पाठः