पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१४०

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः पूजादौ च जपादौ च प्राणायामत्रयंत्रयम् । चत्वारिंशत्समावृत्तिः पञ्चार्णस्य तु मानसी ॥ ३८ ॥

प्राणायामोऽपि वर्णानां द्विद्विह्रासक्रमात् स्मृतः । 

सबिन्दुनादं प्रासादं शतकृत्वो धिया जयेत् ॥ ३९ ॥ एकार्णानां तथान्येषां निर्दिष्टः प्राणसंयमः । बीजं चाष्टोत्तरशतं तज्जपान्ते जपेदपि ॥ ४० ॥ नद्यां शिवालये तीर्थे पर्वतेऽमेश्च संनिधौ ।

गुस्सूर्येन्दुदीपानां साहस्रफल्दो जपः ॥ ४१ ॥

अपिच एकत्वेकगुणो गेहे गोष्ठे दशगुणो जपः ।

नद्यां शतगुणः शम्भोः सहस्रगुणितोऽग्रतः ॥ ४२ ॥ 

स्वयंभुलिङ्गसान्निध्ये जपो लक्षगुणः स्मृतः ।

देवदेषु तीर्थेषु पर्वताग्रेऽम्बुधेस्तटे ॥ ४३ ॥ 

पुण्यक्षेत्राश्रमाद्येषु जपः कोटिगुणो भवेत् ।

प्राग्याम्याम्योत्तराशास्यो जपेद् वश्याभिचारयोः ॥ ४४ ॥

पौष्टिके शान्तिके शुक्तयै प्राङ्मुखो वाप्युदङ्मुखः ।

अङ्गुलीभिश्च रेखाभिः पुत्रजीवैः प्रवालकैः ॥ ४५ ॥ •
स्फाटिकैश्चैव पद्माक्षैः सौवर्णैरथ मौक्तिकैः ।
कुशानां ग्रन्थिभिश्चाथ रुद्राक्षैश्च यथाक्रमम् ॥ ४६ ॥
एकैकस्माद् दशगुणं जपन् फलमवाप्नुयात् ।
अङ्गुष्ठेनाक्षसूत्रस्य कर्षणं मोक्षदं स्मृतम् ॥ ४७ ॥ 

शत्रुनाशाय तर्जन्या श्रियै मध्यमया स्मृतम् । अनामया कनीयस्या शान्तिके पौष्टिके स्मृतम् ॥ ४८ ॥

साङ्गुष्ठमेव सर्वाभिः कर्षणं सर्वकामदम् ।

मन्त्रसाधनाधिकारः । १. 'बो' ख. पाठः. २. ‘स्यो’ क. ग. पाउः.