पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे अष्टाविंश: पटलः । अङ्गुष्ठान्तं तदा सृष्टिर्विपरीतस्तु संहृतिः । अङ्गुष्ठादिकनिष्ठान्तं मन्त्रवर्णास्तु हस्तयोः ॥ २५ ॥

विन्यस्य स्थितयेऽङ्गानां मन्त्राण्यपि तथा न्यसेत् । 

तारं प्रासादसंयुक्तं विन्यस्य तलयोस्ततः ॥ २६ ॥

मन्त्राक्षराण्यङ्गुलीषु चाङ्गान्यस्त्रं तलद्वये । 

ततस्तु हृदये तारं प्रासादमपि विन्यसेत् ॥ २७ ॥

प्राग् दक्षिणोदक्पाश्चात्यमुखेषूर्ध्वमुखेऽपि च ।

न्यासः षडक्षरस्य स्यात् तथा पञ्चाक्षरस्य तु ॥ २८ ॥

विना तलं च हृदयमङ्गुलीष्वासनेषु च ।
नकारादींस्तु पञ्चार्णान् न्यसेदङ्गानि पूर्ववत् ॥ २९ ॥ 

ताराद्यन्तपुटं स्वार्णं न्यसेदङ्गुलिपर्वसु । आद्यन्तपर्वणोस्तारं मध्ये मन्त्राक्षरं न्यसेत् ॥ ३० ॥ स्त्रीशूद्राणां विना तारं स्वार्ङ्गैर्णान्यास ईरितः ।

व्यापकं चैव मूलेन न्यसेदामस्तकाङ्घ्रिकम् ॥ ३१ ॥
देहे मूर्धास्यकण्ठेषु हृद्रुह्याङ्घ्रिषु च न्यसेत् ।
सृष्टौ विलोमात् संहारे स्थितौ हृदयगुह्ययोः ॥ ३२ ॥ 

पादशीर्षास्यकण्ठेषु षड्वर्णानथ पञ्च चेत् ।

न्यसेत् कण्ठं विनान्येषु स्थानेष्वर्णान् यथाक्रमम् ॥ ३३ ॥
हृदयादिषडङ्गानि स्वस्थानेषु स्वजातिभिः । 

अस्त्रान्तमेवं विन्यस्य दिशाबन्धनमाचरेत् ॥ ३४ ॥

विघ्नेशो मातरो दुर्गा क्षेत्रेशश्च स्वनामभिः | 

छोटिकाभिर्नमोन्ताभिर्नियोज्या दिशि दिक्क्रमात् ॥ ३५ ॥ स्ववर्णलक्षजापेन दशांशतिलहोमतः । शिवार्चया च भक्त्यास्य पुरश्चर्या प्रसिध्यति ॥ ३६ ॥

पुरश्चर्यां विनाप्येष भक्तस्य यजतः शिवम् |
'जपहोमातिशयतः सदाभ्यासाच्च सिध्यति ॥ ३७ ॥
१. 'इतिम्', २. 'या' ३. 'शो' ख. पाठः.

शिवाधिकार : ] १३९