पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३६ . ईशान शिवगुरुदेव पद्धतौ मन्त्रपादे सूर्यपटलः]

शुचानालये देशे सुलिप्ते चाथ वर्तुले ।
बिम्बे नवघटे भानुं सम्यगावाह्य पूजयेत् ॥ १०६ ॥
अष्टोत्तरशतं साज्यं पायसं जुहुयादपि ।
जपेदष्टसहस्रं च द्वादशाहं घटं स्पृशन् ॥ १०७ ॥ 

भोजयित्वा द्विजान् भक्त्या वृष्टिमिष्टां स विन्दति ।

तिस्रो रात्रीरूपोप्याथ रविं संपूज्य शक्तितः ॥ १०८ ॥

पायस जुहुयादष्टसहस्रं घृतमिश्रितम् । भोजयित्वा द्विजान् भक्तचा पायसाज्येन शक्तितः ॥ १०९ ॥ द्वादशाहं तु वा पक्षं मासं मासत्रयं तु वा ।

नतः पत्नीमृतुस्नातां हुतशेषं तु वाशयेत् ॥ ११० ॥

मन्त्रेणाष्टशतौलब्धं ततः पुत्रं स विन्दति । कलशे पूर्ववद् भानुमावाह्याभ्यर्च्य भक्तितः ॥ १११ ॥ सगन्धरत्नकनकवस्त्रमाल्याद्यलङ्कृते ।

जपित्वा जुहुयादष्टसहस्रं तेन सेकतः ॥ ११२ ॥ 

ग्रहापमृत्युरोगादेः शान्तिः सद्योऽस्य जायते ।

पयो तो जपेद् वर्षे वर्षे वर्षाण्यथापि यः ॥ ११३ ॥
खेचरत्वादयस्तस्य गुणाः सिध्यन्त्ययत्नतः ।
सावित्रीं यो यथोद्दिष्टां जपन् संपूजयेद् रविम् ॥ ११४ ॥
नित्योक्तमार्गहोमाद्यैः सर्वान् कामानवाप्नुयात् । 

उद्यन्नुद्येति पूर्वायां छन्दोऽनुष्टुव् भवेदृचः ।। ११५ ।

ऋषिश्च देवता प्राग्वद् विनियोगाश्च पूर्ववत् ।

इत्थं यथावदुदितैरिह सूर्यमन्त्रैर्नासाध्यमस्ति खलु वस्तु जगत्रयेऽपि । यस्मादतः सवितरि प्रणिधाय भक्तिं सिद्धिं प्रसिद्धिविभवा च लभेत मुक्तिम् ॥ इति श्रीमदीशान शिव गुरुदेव पद्धती तन्त्रसारे सूर्यपटल : सप्तविंश: । 'भक्त्या पायसाज्येन शक्तितः । द्रा' स. पाट: २. लभते मुक्ति क. ग. पाठः, ख. पाठ:- ३. 'व