पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सूर्याधिकारः] पूर्वार्धे सप्तविंशः पटलः । 127. शिवतेजः कपर्दिनि अस्त्राय फट् । ओं हं शिवतेजः शक्तिनेत्रत्रयाय बौषट् । अङ्गानीमानि सूर्यस्य स्वास्त्रशुद्वे करद्वये ।। ज्येष्ठाद्यङ्गुलिषु न्यस्य क्रमादस्त्रं तलद्वये ।। २ ।। शीर्वात्यहृदुपत्थेषु पदयोर्दिक्षु च क्रमात् ।

तान्यङ्गान्येव विन्यस्य हृदयादिषु च क्रमात् ॥ ३ ॥ 

पूजाजपादिकं कुर्यात् सिद्धिमिष्टां स विन्दति । अस्यर्षिः शुष्किकश्छन्दो जगती देवता रविः |४||

समुद्रगाथां नद्यां तं पर्वताग्रेऽथ वा यजेत् ।
यथावद्वर्णलक्षं तु पुरश्चर्याविधौ जपेत् ॥ ५ ॥
तद्दशांशेन बैल्वैश्च पालाशौदुम्बरैरपि ।
एधोभिः पैप्पलैश्चाज्यदधिमध्वभिधारितैः ॥ ६ ॥
विधिवज्जुहुयाच्छक्त्या ब्राह्मणानपि भोजयेत् ।
अथैवं सिद्धमन्त्रस्य विनियोगा भवन्ति हि ।। ७ ॥
ब्राह्मणादीस्तु पालाशैः पिप्पलोदुम्बरैः क्रमात् ।
अपामार्गस्तु वशयेदेधोभिः शूद्रवत् स्त्रियः ॥ ८ ॥
सर्वान् वर्णान् वशे कुर्यादपामागैर्वृतप्लुतैः । 

नद्यां समुद्रगामिन्यामूर्ध्वबाहुर्जले स्थितः ॥ ९ ॥ नाभिदन्नेऽष्टसाहस्रं जपन् नित्यं धनी भवेत् । मण्डले सवितुर्विष्णुं हेमवर्ण चतुर्भुजम् ॥ १० ॥

शङ्खचक्राम्बुजगदाहस्तं ध्यायन् जपेदपि ।
सर्वान् कामानवाप्नोति मुक्तिमप्यतिदुर्लभाम् ॥ ११ ॥
अनेनैव समुद्दिष्टं यद् यत् स्यादभिवाञ्छितम् । 

मन्त्रेणानेन लभते जपध्यानहुतादिभिः ।। १२ ।। अस्य मन्त्रस्य चान्येषां सामान्येनार्चनाविधिः।

कथ्यते सूर्यमन्त्राणां यथावदिह सङ्ग्रहात् ।। १३ ।।

'मि', २. 'ल' क. पाठः. ३. 'ध्यायेज्जपे' स. पाठः,