पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे षड्विंशः पटलः ।

सर्वशब्दो जनयुतो. मनोहरिपदं ततः ।
मुखरागिणि सर्वाद्यं सर्वराजवशङ्करि ॥ ११४ ॥ 

सर्वस्त्रीपुरुषान्ते च सर्वदुष्टमृगं ततः ।

सर्वसत्त्वस्य चाप्यन्ते वशङ्करियुतं पृथक् ॥ ११५ ।।
अमुकं वशशब्दान्ते मानयेति च ठद्वयम् ।
उद्धृत्य रथवर्णोऽयं मातङ्गीमनुरीरितः ॥ ११६ ॥

महाकालीपरिचरा देवी मातङ्गिका स्मुता। अपिच- नमोन्ते कर्णवर्णः स्यादेकनेत्रे द्वयं दृशा ॥ ११७ ॥ सोमेश्वरस्थः श्वेतोऽथ चण्डान्ते मांसमक्षियुक् । मातङ्गीसवेंशब्दान्ते वशीकरिण ठद्वयम् ।। ११८ ।। मन्त्रोऽयमपि मातङ्गया भवेदुच्छिष्ट संज्ञितः । द्वयोर्ध्यानं समानं स्याद विनियोगो वशीकरः ॥ ११९ ॥ मरतकमणिकोमलश्यामलाङ्गी सुकेशालकां कुन्दमन्दस्मितास्याम्बुजां कुवलयदलनीलनेत्रात्पलां पक्वबिम्बाधरां पीनतुङ्गस्तनी सुन्दरीम् । किसलयमृदुपाणिपादां विनीलाम्बरां (शुक्लां ! ) शङ्खभूषोल्लसच्चारुदिव्याकृतिं

प्रणमत कलगीतवीणास्वनाकृष्टविश्वामराद्यां तु मातङ्गिका भूतये । प्राग्वत्।

ध्यात्त्वा देवीं तु मातङ्गी प्रथमं सन्ध्ययोर्जपेत् । निशास्वयुतजापेन सिद्धमन्त्रों भविष्यति ॥ १२१ ॥ सर्वानपि वशे. कुर्यात् स्त्रीपुंसोश्च समो विधिः। रात्रौ भुक्त्वा द्वितीयेन ध्यत्वोच्छिष्टान्धसा बलिम् ॥ १२२ ॥ मन्त्रेण जपितं दद्याद् वशयेत् सकलं जगत् । राजद्वारे सभायां वा यं यं वीक्ष्य जपन् व्रजेत् ॥ १२३ ॥ ०

स वश्यो भवेत् सद्यो दत्त्वा पुष्पादिकं तथा । 

काणं त्रिमधुरैः पिष्ट्वा कृत्रा साध्यात्य पुतलीम् ॥ १२४ ॥ 1 यम । मन्त्रोऽय' ग. पा. २. 'पा' स. पाठ:. ३. रे' क. ग, पा: