एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
१९३ ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः
इत्याराध्याथ तां देवीं निवेद्यान्तं यजेत् क्रमात् । भानुलक्षं जपन्मन्त्रं श्रीमान् स वशयेज्जगत् ॥ ८७ ॥ बिल्वपत्रफलाद्यैस्तु मिश्रेर्तुत्वा धनी भवेत् । साषामार्गास्थिचूर्णैस्तु मधुरैर्वेशयेज्जगत् ।। ८८ ॥ अथ श्रीशक्तिकामानां बीजेशी कथिताम्बुजे ।
प्रोक्तरूपादिकां देवीमासीनां पूजयेच्छ्यैि ॥ ८९ । अङ्गावृतिः स्यात् प्रथमा पद्मवाह्ये षडाश्रषु ।
हरिलक्ष्मीशगिरिजाः स्मरं चैव रतिं यजेत् ॥ ९० ॥
पद्माद्यैरष्टनिधिभिस्तद्बाह्यै चाष्टमातृभिः ।
योषिद्रूपैश्च लोकेशैर्यजेत् परिवृतां क्रमात् ।। ९१ ॥
श्रोकरं यजनं चैतद् विशेषात् सर्ववश्यदम् । त्रीण्येतान्येव बाजानि कलायां योजयेत् क्रमात् ॥ ९ ॥
विन्दौ व्योम्नि समायोज्य ध्यायन् सिन्दूरलोहितम् ।
त्रैलोक्यं वशयेन्मन्त्री जपध्यानरतः सदा ।। ९३ ॥
बिल्वशम्यर्कसमिधो जपापुष्पाणि च क्रमात् । जुहुयान्मधुराक्तानि जगद्वश्याय च श्रियै ॥९॥
त्रिपुटाधिकारः। तारमोष्ठं च खं साक्षं पार्श्वं रक्तं च मेश्वरी। ठद्वयान्तो दशार्णोऽयमुमामन्त्रन्तु वश्यदः ॥ ९५ ।। ... अयुतं प्रजपेदादौ दशांशाज्यं जुहोतु च । उत्कृतौ- अश्वारूढां देवीं व्यक्षां लसदरुणमणिरुचिनिभां भुजङ्गविजृम्भितं पाशं क्षिप्त्वा साध्यां बद्ध्वा स्मरशरशतविवशतनुं निजैक्यगतामुमाम् । १. 'स्तं वाह्य क. पाठः. २. 'ना'. 1. रा', 'तो' र. पाठ..