पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२० ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः अत्यष्टिवर्णस्तारादिरयं भूहृदयाह्वयः ।

रामवदानलगुणवेदसंख्यैः स्ववर्णकैः ॥ ६७ ॥ 

अङ्गानि रचयेत् पञ्च जातिभानि यथाक्रमम् । ऋषिर्वराहश्छन्दोऽपि निवृद् भूमिश्च देवता ॥ ६८ ॥

लक्षं पुरस्क्रिया होमो दशांशं पायसाज्ययोः । 

सिध्येन्मन्त्रस्त्वयं नित्यपूजाविधिरथोच्यते ॥ ६९ ॥

मेरौ कल्पतरोर्मूले हेमभूरनपीठके ।
ध्यात्वा सिताम्बुजं तस्मिन् देवीमावाह्य पूजयेत् ॥ ७० ॥

तद्यथा आधारशक्तिं कर्म चाप्यनन्तातनमेव च । धर्मादिकान् गुणान् सूर्थसोमाग्न्यधिपमण्ड लैः ॥ ०१ ।। तत्कर्णिकायां भूबीजमिष्ट्वा तबिम्बतारकम् । मूलेनावाहयेत् तस्मिन् धरणीं दिव्यरूपिणीम् ॥ ४२ ॥ अथाभिकृतौ- श्यामलवर्णां कोमलमूर्तिं कुवलयचलदृशमभिनववयसं हेमकिरीटां स्वाभरणाढ्यां करधृतकमलककुवलययुगलाम् ।

कौञ्चपदाली चित्रपटान्तस्तरलितसुरसरिदुपमितवसनां 

पिञ्जरगन्धस्रक्परिवहीैं प्रणमत भुवमिह मुररिपुदयिताम् । क्रौञ्चपदा । ध्यात्वैवं धरणीं देवीमुपचारैर्यजेत् क्रमात् । अङ्गैश्च वासुदेवायैर्दिक्षु पद्मदलाग्रगैः ॥ ७४ ॥

जलाग्निमरुदाकाशान् कोणपत्रेष्वनुक्रमात् ।
श्वेतरक्तासितस्वच्छवर्णान् प्रोक्ततनून् यजेत् ।। ७५ ॥
देव्याः पार्श्वगतो दूतीश्चतस्रः कोणगा यजेत् । 

चामरं मुकुरं चैव रत्नभूषासमुद्कम् ।। ७६ ॥

ताम्बूलककरङ्कं च वहन्तीर्हेमसन्निभाः ।
कुलशैलान् समुद्रांश्च नदीवृक्षौषधीरपि ॥ ७॥