पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१९ भूह्रदयाधिकारः] . पूर्वार्धे षड्विंशः पटलः । अर्धरात्रे च तां ध्यायन् धनधान्यपतिर्भवेत् । प्रातरष्टौ सहस्रं च सन्तप्यै सलिलैः शुभैः ॥ ५६॥ मासेन तु समृद्धिः स्याद् वशयेच्च जगत्रयम् ।

ध्यायन् सम्पूजयेन्नित्यं जपन् सन्तर्पयन्नपि ॥ ५७ ॥ 

महतीं श्रियमाप्नोति वर्षमात्रान्न संशयः ।

दूर्वाभिरायुरारोग्यं पद्मबिल्वैः श्रियं धनम् ॥ ५८ ॥ 

जुह्वदाप्नोति वस्त्राणि नवाज्यैराज्यसंप्लुतम् । चन्दनेनार्धरात्रे तु समालिप्य तु मण्डलम् ॥ ५९ ॥

पुष्पैविकीर्य विविधैस्तस्मिन्नावाद्य पूजयेत् ।
घृतदीपशतं दत्त्वा गन्धाधैरर्चयेत् क्रमात् ॥ ६० ॥ 

अर्धरात्रं समारभ्य यावत् स्यादरुणोदयः ।

जपेत् सजागरो मन्त्रं वसुधारामनुस्मरन् ।। ६१ 

ततस्तु हेमधाराग्रे नरस्थूला पतिष्यति । आहोत्तरसहसं तु नाभिदघ्नजले स्थितः ॥ ६२ ॥

जपन् सप्तदिनाद् वृष्टिं लभते पुष्टिवर्षिनीम् ।
पञ्चप्रादेशमात्रे तु पटे देवीं यथाविधि ॥ ६३ ॥
संलिख्य तूक्तरूपाढ्यां पूजयेत् सिद्धिभाग् भवेत् । 

वातश्चैवार्धरात्रे च चन्दनालिप्तमण्डले ॥ ६४॥

सम्पूज्यैनां जपन् जुह्रद् यथोक्तं फलमश्नुते ।

वसुधाराधिकारः। तारं च हृदयं नाभिर्दोर्मध्यं सलिलं ततः ॥६५॥

त्वस्थो षढि भौतिकाण्ड्ये मीनोऽरण्यैर्धरार्णको(द)। 

उमाकान्तः सदृक् चाथ धरेर्णौ ठद्वयं मनुः ।। ६६ ॥ १. 'घ्यायेद् ध' स्व. पाठ:. २. 'ये', ३. 'ड्यो' क. ग. पाठः.