पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वसुधाराधिकार : ] पूर्वार्धे षडविंश: पटलः किञ्चिद् विनिर्गताङ्गुष्ठमुद्रा वाहनसंज्ञिता । अर्धरात्रे जपेन्मन्त्रं साध्यं पञ्चदशाक्षरम् || ३५ ||

मूलेन सप्तवर्णेन पूजयेत् तां यथाविधि 

मासाच्च वित्तं लभते षण्मासाद् धनदो भवेत् ॥ ३६ ॥ प्राह्णे नित्यं जपेन्मन्त्रं निशीथे जुहुयात् तिलैः ।

राजानं वशयेदिष्टमर्थं तस्माल्लभेत च ॥ ३७ ॥
सिद्धार्थैरथवा हुत्वा शुभ्रैर्भूपो वशे भवेत् ।
ह्रस्व श्रीर्वायुरोष्ठस्थो दीर्घमाद्यन्ततः करी ॥ ३८ ॥
ढणचषि ढान्यचषि पुष्पिकरि ऋद्धिकरि अविघ्नकरि सर्वकरि ठठ ।
द्वात्रिंशदर्णो मन्त्रोऽयं प्राग्वदङ्गादिकं स्मृतम् ।
प्राग्वत् पूजाजपध्यानैर्वसुधारेष्टदा भवेत् ॥ ३९ ॥ 

अथान्यः साध्यमन्त्रस्य पूर्वोक्तस्योच्यते विधिः ।

क्षीरोदहेमपुलिने कल्पकोद्यानमण्डिते ॥ ४० ॥ 

हेमपक्षिमृगाकीर्णे चिन्तयेत् स्वर्णमण्डपम् ।

दशयोजनविस्तारं शतयोजनमायतम् ॥ ४१ ॥
मण्डपं तदुपेन्द्रेण देव्यर्थं निर्मितं धिया ! 

स्तम्भैर्दिव्यैर्मणिमयैरष्टोत्तरसहस्रकैः ॥ ४२ ॥

युक्तं वैडूर्यसोपानं स्फाटिकान्तर कुट्टिमम् ।
पद्मिनीशतसङ्कीर्णं दिव्योद्यानैश्च शोभितम् ॥ ४३ ॥

तोरणच्छत्रकलशप्रदीपाङ्कुरचामरैः । शङ्खस्फटिकचक्राङ्कध्वजदर्पणमण्डितम् ॥ ४४ ॥ अन्यैश्च मङ्गलैर्युक्तं मुक्तादामावलम्बितम् । तन्मध्यदेशे ध्यात्वाथ रत्नसिंहासनं पुनः ॥ ४५ ॥ ११७ तस्योपरि महत् पद्मं सहस्रदलशोभितम् । तत्कर्णिका स्थितां देवीं वसुधारां विचिन्तयेत् ॥ ४६ ॥ १. ख. पाठः १. 'रि' क. ग. पाठः. ३. 'स्वस्तिक' क. ग. पाठ::