पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६ - ईशानशिवगुरुदेवपद्धतौ तत्पार्श्वगं तथा शुक्लं भास्वराब्जे कपर्दिनम् ।

साङ्गाजिनोत्तरीयाढ्यं पद्मे लोकेश्वर स्मरेत् ॥ २५ ॥
वामपार्श्वे वज्रपाणिं श्याम वनधरं तथा। 

किरीटादिविभूषाढ्यं पद्मे नाभिस्थपाणिनम् ॥ २६ ॥ ओं सं ठठ । ओं धां ठठ । ओं रं ठठ । ओं वसुधे! ठठ । ओं वसन्धरि! ठठ । ओं वसुमति ! श्रिये ठठ । ओं वसुधारि! ठठ । दिग्विदिश्वभिपूज्यतास्तत्पङ्कजदलाग्रगाः । मध्ये मलेन देवीं तां तत्पार्श्वे श्रीमहाश्रियौ ॥ २० ॥

श्रीरूपे पङ्कजे पूज्ये वसुवर्षिघटीकरे ।

ओं चक्ररत्नाय नमः । ओं मणिरत्नाय नमः । ओं असिरत्नाय नमः । ओं अश्वरत्नाय नमः । ओं स्त्रीरत्नाय नमः । ओं पुरुषरत्नाय नमः । ओं गजरत्नाय नमः। सप्तैतान्यपि रत्नानि पद्मस्थान्यग्रतो यजेत् ॥ २८ ॥ तेषामुभयतो यक्षनागराजाभिधानकान् । ऊर्ध्वतो देवपुत्रांश्च प्रणान् सेवयागतान् ॥ २९ ॥

इत्थं सपरिवारां तां यजेद् गन्धादिभिः क्रमात् । मुद्राभिर्वक्ष्यमाणाभिर्वसुधाभिरनुक्रमात् ॥ ३० ॥ 

अन्तःस्थाङ्गुष्ठयुग्मा तु मुद्रा समयसंज्ञिता ।

तस्यास्तर्जादिमोक्षेण तिस्रः पुष्पादिसंज्ञिताः ॥ ३१ ॥ 

कनिषानखमारोप्य ज्येष्ठाग्रं वज्रलक्षणम् ।

मुक्तशेषाङ्गुलिः प्रोक्ता दीपमुद्रेति देशिकैः ॥ ३२ ॥ 

बद्ध्वाञ्जलिं तु पात्राभं पार्श्वस्थाङ्गुष्ठयोगतः ।

नैवेद्यमुद्राथ मिथो निर्गताग्राङ्गुलिर्भवेत् ।। ३३ ।।
सामान्यमुद्रा सर्वत्र प्रणामविषये स्मृता ।

तृतीयपर्वमध्याभ्यां तर्जाभ्यां कुञ्चितं स्पृशेत् ॥३१॥ . ..

'क्ला', २. 'नाम्' ख. पाठ:. ३. 'अ', ४. 'मः । ओम् मक. पाठः. ५. 'वा', .. ६. 'लोः' ब. पाठः.